________________
१८
न्याय-दीपिका
२३. तदेवं सुव्यवस्थितेऽपि प्रमाणस्वरूपे दुरभिनिवेशवशंगर्तः सौगतादिभिरपि कल्पितं प्रमाणलक्षणं सुलक्षणमिति येषां भ्रमस्ताननुतीम:' । तथा हि---
[ सोगतीयप्रमाणलक्षणस्य समोक्षा ]
६२४. “ प्रविसंवादि ज्ञानं प्रमाणम्" [ प्रमाणवा० २- १] इति बौद्धाः । तदिदमविसंवादित्वमसम्भवित्वादलक्षणम् । बौद्धन हि प्रत्यक्षमनुमानमिति प्रमाणद्वयमेवानुमन्यते । तदुक्तं स्यायबिन्दी — "द्विविधं सम्यग्ज्ञानम्", "प्रत्यक्षमनुमानं च" [ न्यायबिन्दु पृ० १० ] इति । न तावत्प्रत्यक्षस्याविसंवादित्वम्, तस्य निविकल्पकत्वेन स्वविषयानिश्चायकस्य समारोपविरोधित्वाभावात्' । नाऽप्यनुमानस्य' तन्मतानुसारेण' 'तस्याज्यपरमार्थभूतसामान्य गोचरत्वादिति" ।
[कुमारिलमट्टीयप्रमाणलक्षणस्य समीक्षा ]
२५. “अनधिगततथाभूतार्थनिश्चायकं प्रमाणम्" [ शास्त्र
१ मिथ्यात्वाभिप्रायः । २ जनानाम् १३ उपकुर्मः ३४ न निर्दो पलक्षणम् । ५ बौद्धताकिकधर्मकीतिविरचिते न्यायविन्दुनाम्नि ग्रन्थे । ६ यन्न समारोपविरोधि तन्नादिसंवादि, यथा संशयादि, तथा च प्रत्यक्षम्, तस्मान्न तदविसंवादीति भावः । ७ अविसंवादित्यमिति सम्बन्धः । ८ बौद्धमतानुसारेण । अनुमानस्यापि । १० अयमत्राशयः --- बौद्धमते हि द्विविधं प्रमेयं विशेषाख्यं स्वलक्षणमन्यापोहाख्यं सामान्यं च । तत्र स्वलक्षणं परमार्थभूतं प्रत्यक्षस्य विषयः स्वेनासाघारणेन लक्षणेन लक्ष्यमा णत्वात्, सामान्यं त्वपरमार्थभूतमनुमानस्य विषयः परिकल्पितत्वात् । तषा