________________
१. प्रमाणसामान्यप्रकाश:
याऽव्यभिचारित्वम! । 'तस्योत्पत्ति: कथम् ? स्वत एवेति मोमांसकाः । प्रामाण्यस्य स्वत उत्पत्तिरिति ज्ञानसामान्यसामग्रीमात्रजन्यत्वमित्यर्थः । तदुक्तम्--"ज्ञानोत्पादकत्वनतिरिक्तजन्यत्व' मुत्पत्तो स्वतस्त्वम् [ ] इति । 'न ते मीमांसकाः, ज्ञानसामान्यसामग्रयाः संशयादावपि ज्ञानविशेष सत्त्वात् । वयं तु ब्रूमहे ज्ञानसामान्यसामग्रथाः साम्येऽपि संशयादिरप्रमाणं सम्यग्ज्ञानं प्रमाणमिति विभागस्तावदनिबन्धनो न भवति । ततः संशयादी यथा हेत्वन्तर मप्रामाण्ये दोषादिकमङ्गीक्रियते" तथा प्रमाणेऽपि2 "प्रामाण्यनिबन्धनमन्यदवश्यमभ्युपगन्तव्यम्, अन्यथा प्रमाणाप्रमाण विभागानुपपत्ते:" 1 स्याहारिनो जैमा इत्येवं वादिना विप्रतिपत्तेः सद्भावात्संशयः स्यात्तन्निराकरणाय प्रामाण्याप्रामाण्यविचारः प्रक्रम्यते किमिदमिति ।
१ प्रामाण्यस्य । २ येनैव कारणेन ज्ञानं जन्यते तेनैव तत्प्रामाप्रयमपि न तद्भिन्नकारणेनेति भानः । ३ ज्ञानस्योत्पादको यो हेतुः कारणं तदतिरिक्तजन्यत्वं ज्ञानोत्पादककारणोत्पाद्यत्वमित्यर्थः । ४ समापत्ते ति, मीमांसका:-विचारकुशलाः । ५ समग्राणां भावः- एककार्यकारित्वं सामग्री-यावन्ति कारणानि एकस्मिन् कार्य व्याप्रियन्ने तानि सर्वाणि सामग्नोति कध्यन्ते । ६ मिथ्याज्ञाने । ७ जनाः । - कारणः । ६ एकस्माद्धेतोरन्यो हेतुः हेत्वन्तरं जानसामान्यकारणाद्भिन्नकारणमित्ययः । १० स्वीक्रियते, भवता मीमांसकेन । ११ गुणादिकम् --नमल्यादि. कम् । १२ गुणदोषकृतप्रामाण्याप्रामाण्यानम्युपगमे । १३ इदं ज्ञानं प्रमाणमिदमप्रमाणमिति विभागो न स्यात् ।
'प्रमाग्य' इत्यधिक: पाठ: म प्रती। 2. 'मपि' इति प्रा प्रतो नास्ति।