________________
१०
न्याय-दीपिका
याभावान्न विपर्यय इति पृथगेव । एतानि च स्वविषयप्रमितिजनकत्वाभावादप्रमाणानि ज्ञानानि भवन्ति, सम्यग्ज्ञानानि तु न भवन्तीति सम्यक्पदेन व्युदस्यन्ते' । ज्ञानपदेन' प्रमातुः प्रमितेश्च' व्यावृत्तिः । अस्ति हि निर्दोषत्वेन तत्रापि सम्यक्त्वं न तु ज्ञानत्वम् ।
११० ननु प्रमितिकर्तुः प्रभातुर्ज्ञातृत्वमेव न ज्ञानत्वमिति यद्यपि ज्ञानपदेन व्यावृत्तिस्तथापि प्रमितिर्न व्यावर्त्तयितुं शक्या, तस्या अपि सम्यग्ज्ञानत्वादिति चेत् भवेदेवम्' ; यदि भावसाधन
संशय-विपर्ययाभ्यां ज्ञानान्तरत्वं प्रसाधयति इदमिति, इदम् -- श्रनध्यव सायाख्यं ज्ञानम् । इदमत्र तात्पर्यम् संशयं नानाकोट्यवलम्बनात्, विपर्यये च विपरीतककोटिनिश्चयात्। अनध्यवसाये तु नैकस्या अपि कोनिश्चयो भवति । ततस्तदुभयभिन्नविषयत्येन कारणस्वरूपभेदेन च ताभ्यामिदं ज्ञानं भिन्नमेव । तथा चोक्तम् - अस्य ( श्रध्यवसायस्य ) चानवधारणात्मकत्वेऽपि कारणस्वरूपादिभेदान्न संशयता । अप्रतीतविशेषविषयत्वेनाऽपि अस्य सम्भवादुभयविशेषानुस्मरणजसंशयतो भेद एदेत कन्वलीकाराः । -- प्रशस्तपा० टि० पृ० ६१ ।
-
१ संशय विपर्ययाभ्याम् । २. संशयादीनि । ३ निराकियन्ते । ४ सम्यक्पदस्य कृत्यं प्रदश्यं ज्ञानपदस्य कृत्यं प्रदर्शयति जानपदेनेति । ५ ननु ज्ञानपदेन यथा प्रमातुः प्रमितेश्च व्यावृत्तिः कृता तथा प्रमेयस्य कथं न कृता तस्यापि ज्ञानत्वाभावात् इति चेत्तस्थापि चशब्दाद् ग्रहणं बोध्यम् । यद्यपि स्वपरिच्छेद्यपेक्षया ज्ञानस्य प्रमेयत्वमस्त्येव तथापि घटपटादिबहिरर्थापेक्षया प्रमेयत्वं नास्तीत्यतो मुक्तं चशब्दात्तस्य ग्रहणम् । ६ प्रमातरि प्रमितो प्रमेये च । ७ भावसाधनपक्षे | ८ प्रमिते रव्यावर्तनम् । ६ शतिमात्रं ज्ञानमिति ।