________________
१. प्रमाणसामान्यप्रकाशाः
[ प्रमाणसामान्यस्य लक्षणकथनम् ] ८ सम्यग्ज्ञानं प्र...' . अत्रमा लक्ष्यं मन्यमानत्वं तस्य लक्षणम् । गोरिव सास्नादिमत्वम् , अग्नेरिवौष्ण्यम् । अत्र' सम्यक्पदं संशयविपर्ययानध्यबसायनिरासाय क्रियते, अप्रमाणवादेतेषां' ज्ञानानामिति ।
तथा हि विरुद्धानेककोटिस्पशि' ज्ञानं संशयः, यथा स्थाणुर्वा पुरुषो वेति । स्थाणुपुरुष साधारणोद्धतादिधर्मदर्शनासद्विशेषस्य वक्रकोटरशिरःपाण्यादेः साधकप्रमाणाभावादनेककोटधवलम्बित्व ज्ञानस्य । विपरीतककोटिनिश्चयो विपर्ययः, यथा शुक्तिकायामिदं रजतमिति ज्ञानम् । अत्रापि सादृश्यादिनिमित्तबशाच्छक्तिविपरीते रजते निश्चयः । किमित्यालोचनमात्रमनध्यवसायः ,यथा पथि। गच्छतस्तृणस्पर्शादिज्ञानम् । इद' हि नानाकोट्यवलम्बनाभावान्न संशयः । विपरीतककोटिनिश्च
१ यावत्सम्यग्जानवृत्तिः सामान्यम्पो धर्मः सम्यग्ज्ञानत्वम् । २ 'सम्यग्ज्ञानं प्रमाण' मित्यत्र । ३ संशयादीनाम् । ४ कोटि -पक्षः, अवस्था वा । ५ उभयवृत्तिः सामान्यरूप ऊतादिधर्मः माघारण: । ६ स्थाणपुरुषविशेषस्य, स्थाणोविशेषो वक्रकोटगदिः । पुस्पस्य तु गिर:पाण्यादिरिति भावः । ७ तदभाववति तत्प्रकारकं ज्ञानं विषययः, पथा रजतत्वाभाववति शक्तिशकले रजतत्वप्रकारकं 'शुक्ती व रजतम्' इति ज्ञानमित्याशयः । ८ अादिपदेन चाकत्रिक्यादिग्रहणम् । ६ अनिश्चयस्वरूप संशय-विपर्ययभिन्नजातीयं ज्ञानम् । १० अनभ्यवसायाख्यज्ञानस्य
1 'पथि' इति पाठो म प्रतो नास्ति ।