________________
न्याय-दीपिका साधारणधर्मत्वमस्ति, न तु लक्ष्यभूत गोमात्रा व्यावर्तकत्वम् । तस्माद्यथोक्तमेव लक्षणम् , तस्य कथनं लक्षणनिर्देश:।।
६ विरुद्धनानायुक्तिप्राबल्यदौर्बल्यावधारणाय प्रवर्तमानो विचार: परीक्षा।सा खल्वेवं चेदेवं स्यादेवं चेदेवं न स्यादित्येव? प्रवर्तते।
७ प्रमाणनययोरप्युद्द शः सूत्र' एव कृत: । लक्षणमिदानी निर्देष्टव्यम् । परीक्षा च यथोचित्यं भविष्यति । 'उद्देशानुसारेण' लक्षणकथनम्' इति न्यायात्प्रधानत्वेन' प्रथमोद्दिष्टस्य प्रमाणस्य तावल्लक्षणमनुशिष्यते ।
१ गोत्वावच्छिन्नसकलगौः २ व्यतिकीर्णवस्तुष्यावृत्ति हेतुरित्येव । ३ "लक्षितस्य लक्षणमुपपद्यते नवेति विचार: परीक्षा'—(तर्कसं पदक. पृ० ५)। ४ 'प्रमाणनयरधिगमः' इति तस्वार्थमूत्रस्य पूर्वोल्लिखिते सूत्रे । ५ यथावसरम् । ६ उद्देशकमेण, ययोदे शस्तथा निर्देवा इति भावः । ७ अथ प्रमाणनययोमध्ये प्रमाणापेक्षया नयस्पाल्पान्तरत्वात्प्रथमतस्तस्पकोई शः कर्त्तम्योऽत पाह प्रधानत्वेनेति । ननु लथापि कथं प्रमाणस्य प्रधानत्वं ? येन प्रथम तदुद्दिश्यत इति चेदुच्यते प्रमाणस्याभ्यहितत्त्वाप्रधानत्वम्, अभ्यहितत्त्वं प 'प्रमाणप्रकाशितेष्वर्थेषु नयप्रवृत्तर्व्यवहारहेतुत्वात् । यतो हि प्रमाणप्रकाशिनेष्वर्थेषु नयप्रवृत्तिर्व्यवहारहेनुर्भवति नान्येष्वतोऽयहितत्वं प्रमाणस्य । अथवा समुदायविषयं प्रमाणमवयविषया नयाः । तथा चोक्तम्- "सकलादेशः प्रमाणाधीनो विकलादेशो नयाधीनः" इति' ।- (तत्वार्थवा १.६) । ८ कथ्यते ।
[ 'मात्रस्य' इति द प्रतिपाठः । 2 खल्वेवं वेदेवं स्यादेवं न स्पादित्येवं' इति प्रा प्रतिपाठः । प म प्रतिपु 'न' पाठ नास्ति 3 'यथोचितं' । इति व प्रतिपाठः।