________________
'काव्यमाला । चमत्कृताः कुमारस्य रूपमालोक्य सुभ्रवः। ' शिरांसि दुधुवुः सद्यः स्मरबाणैरिवाहताः ॥ ६॥ तस्य वक्षसि विस्तीर्णे भ्रान्त्वा कामं नतभ्रुवाम् । श्रान्ता इव दृशोऽभूवन्न व्यावृत्तिक्षमाः पुनः ॥ ६१ ॥ अङ्गभङ्गं सरोमाञ्चं विकाशं नेत्रपद्मयोः। .. रसाधिक्यजुषां तासां चकार मदनज्वरः ।। ६२॥ मुक्तार्धलिखितं चित्रं कापि जालार्पितेक्षणा । कुमारचारुतां वीक्ष्य पूर्णचित्राभवद्वधूः ॥ ६३ ॥ समग्रगुणसंपन्नं नेमिमासाद्य नायकम् । राजीमत्याः स्फुटं जातं संप्रति प्राक्तनं तपः ॥ ६४ ॥ शार्ङ्गमारोपितं येन हस्तेनैकेन हेलया। वायुभिर्नासिकामुक्तैः पाञ्चजन्यश्च पूरितः ।। ६५ ।। जरासंधस्य सा सेना तरोश्छायेव भास्करात् । खयं पराङ्मुखी यस्मादभूदद्भुततेजसः ॥ ६६ ॥ यत्र गर्भ गते धाम्नि रत्नवृष्टिः किलाभवत् । यस्य जन्मोत्सवे सेन्द्राः किलाजग्मुः सुधाभुजः ॥ ६७ ।। सोऽयं सखिवरो नेमिनींलोत्पलदलद्युतिः । अधः श्वेतातपत्रस्य मध्ये चामरयोर्द्वयोः ॥ ६८॥ इत्थं पुरपुरन्ध्रीणां शृण्वन्नन्योन्यसंकथाः। नेमिः समासदत्सद्मद्वारं संबन्धिनः शनैः ॥ ६९ ॥
१. अङ्गभङ्गादीनि ज्वरस्य लक्षणानि । रसाधिक्यसेवनं कारणम्. २. 'कर्बु. राद्भुतयोः क्लीबं तिलकालेख्ययोरपि'.