________________
५८
काव्यमाला ।
करुणखरं विलपतोरनेकशः पुरतो निशाविरहिणोर्विहंगयोः । विपदं विलोकयतुमक्षमा ध्रुवं नलिनी सरोजनयनं न्यमीलयत् ॥ ११ ॥ नवनी लिरागरहिताम्बरा सती तमसा समं सहचरेण सर्वदा । इह वारिराशि परतीरमण्डलादथ बर्बरीव विचचार शर्वरी ॥ १२ ॥ अपरावनीधरतटात्पयोनिधौ पततः सतो झगिति झम्पया रवेः । व्यरुचन्समुच्छलदतुच्छपाथसामिव बिन्दवो गगनसीनि तारकाः ॥ १३ ॥ यदचिन्त्यशक्तिकलिताः किलौषधीः परिकीर्तयन्ति कृतिनस्तथैव तत् । कथमन्यथा सुतिमिरोदयक्षणे प्रकटं कुतोऽपि समभून्महन्महः ॥ १४ ॥ न रथो न रथ्यतुरगा न सारथिस्तमसा तथापि रजनीसमागमे । रविणा विमुक्तमुररीकृतं जगत्समयो हि कार्यजननो बलं वृथा ॥ १५ ॥ दिवसे दिवाकरकरोत्कराहतिप्रथितान्धभावविधुरैः स्थितं हि यैः । तिमिराञ्जनेन निशि निर्मलीभवन्नयनैरुलूक विहगैर दर्शितैः ॥ १६ ॥ निशि कैरवैर्मुकुलितैर्विजृम्भितं कमलैर्निमीलितमहर्विका सिभिः । भविनां हि दैववशवर्तिनां भवेन्न विपन्न संपदपि संततस्थिरा ॥ १७ ॥ प्रहरैर्विभक्तचतुरङ्कविग्रहा कविचक्रचित्तर सदानपण्डिता । विरराज संनिहितराजनायका नवनाटिकेव भुवने विभावरी ॥ १८ ॥ उदितेन तीव्रतरतेजसा हि नः प्रशमं महो गमितमंशुमालिना । तिमिरं विपक्षमपि तारकैरिति प्रतिपद्य विस्फुरितमम्बरे ध्रुवम् ॥ १९ ॥ बहुलान्धकारपटलेन वारिते प्रसरे दृशां स्खलितलक्ष्यदर्शनः । मिथुनानि गीतमुखराणि मन्मथः खरपातिभिः प्रहरति स्म सायकैः ॥ २० ॥ उदयाद्विसंनिहितवर्तिनः प्रभा शशलाञ्छनस्य पुरतः प्रसर्पिणी । अथ वारिराशितटफेनसंततिभ्रममाततान तिमिरान्तिकस्थिता ॥ २१ ॥ क्षणमेकमेककलया कलानिधेस्तदनु प्रसारि रुचि भस्मना ततः ।