________________
५४
काव्यमाला। कौतुकादिव कासारः कुचान्पस्पर्श योषिताम् ॥५०॥ नखक्षतततिः स्त्रीणामङ्गरागे हृते जलैः। व्यक्ता वर्णावलीवासीत्कायस्थस्य मनोभुवः ॥ ५१॥ आकण्ठमम्बुमनस्त्रीमुखैरलिसमालकैः । क्रीडोत्खातारविन्दश्रीः पुनः सरसि संदधे ॥ ५२ ।। अकारणखलस्येन्दोरवस्कन्दमिवागतम् । वीक्ष्य वक्रोत्करं स्त्रीणां सरश्चकैः पलायितम् ॥ ५३ ॥ योषिद्यावककस्तूरीरक्तकृष्णा सरस्यभूत् । द्यौः समुन्मीलितश्यामा संध्यासंधिरिव क्षणे ॥ ५४ ॥ तरद्भिर्नीलवसनैर्मजन्तीनां मृगीदृशाम् । अनपाकृतशेवालमिव जातं सरोजलम् ॥ ५५ ॥ च्युतं सरसि केशेभ्यः कामिनां केतकीदलम् । भृङ्गैर्युतं तरल्लेभे सधीवरतरीतुलाम् ॥ ५६ ॥ धौतान्तःपुरनेपथ्यकस्तूरीपङ्कचन्द्रकैः । . बभूव पमिनीपत्रशोभा सरसि भूयसी ॥ ५७ ॥
ओष्ठपल्लवपादाजतलेभ्यः क्षालितोऽम्बुभिः । रागः प्रकृतिरक्तेभ्यो नालक्ष्यत मृगीदृशाम् ॥ ५८ । क्रीडावनविहारोत्थश्रमः कमलचक्षुषाम् । अङ्गरागश्च तोयेन तुल्यकालमपाकृतौ ॥ ५९॥ बभूव लोहितच्छायैर्नारीपदनखेन्दुभिः। संजातविद्रुमलताकन्दोद्भेद इवाम्बुधिः ॥ ६०॥ चित्राजलधरेणेव यूना कस्याश्चिदाननम् ।
१. कासारचक्रवाकैः.