________________
७ सर्गः]
नेमिनिर्वाणम् ।
तत्त्वज्ञाननिधे व्यनक्ति वसुधा शार्दूलविक्रीडितं गच्छत्कोलकुरङ्गकासरशशप्रायाखिलश्वापदा || ४५ ॥ कठिनगवलकज्जलश्यामलश्रीभृतामद्भुतैर्धातुभिर्भ्राजमानावनौ रवभरकलिता बृहन्मर्दलाडम्बराणां ततस्तोकपुष्पौघलीलातरौ । कनकनिकषभाखराकारविद्युल्लतामण्डितानाममुष्मिन्विशाले गिरौ
विबुधमिथुनकैर्गुहासु स्थितैर्नीयते चण्डवृष्टिर्वनानां कणतुम्बरौ ॥ उपलवर्त्मसु कन्दरभूषु च द्रुतविलम्बितमुञ्चलितं घनम् । इह महीमखिलावनिभृद्विभौ व्रजति निर्झरवारि निरन्तरम् ॥ ४७ ॥ अनुकृतविषमप्रहरणकलिका क्षितिरुहनिवहैः परिलसदवनौ ।
भनिकरसदृशद्युतिरनुविपिनं
लसति सुविशदा बहुरिह हि नगे ॥ ४८ ॥
गौरा नित्य भ्रमरविलसिता नव्याब्दानां ततिरतिसरसा ।
एषा क्षिप्ता खलु नगगुरुणा शके दृष्टिस्त्वयि सविकसना ॥ ४९ ॥ रेम्भारामा कुरबककमलारम्भारामा कुरबककमला ।
रम्भा रामाकुरवक कमलारम्भारामाकुरवककमला ॥ ५० ॥
४७
१. इदं पद्यगन्धिगद्यं वाग्भटालंकारे महायमकोदाहरणतयोपन्यस्तम्. व्याख्यातं चेदं तद्व्याख्यातृभिः तथाहि — 'अत्र पर्वते कुर्भूमिः । शोभत इति संबन्धः । कीदृशी भूमिः । रम्भारामा रम्भाभिः कदलीभिर्मिश्रा आरामा यस्यां सा । तथा— अबककमला । अबकं बकरहितं कं पानीयं मलते धारयतीत्यबककमला । तथा——–अरमत्यर्थं भारामा भैर्नक्षत्रैरा ईषद्रामा । कर्बुरेत्यर्थः । तथा —कुर • बककमलारम्भा । कुरबका वृक्षविशेषाः, कमलानि पद्मानि तेषामारम्भा उत्पत्तयो यस्यां सा कुरबककमलारम्भा । तथा — रामा रम्या । अथवा — कुरबककमलारम्भारामा कुरबककमलानामारम्भेणोद्गमेन आ ईषद्रामा मनोज्ञा । हे अकुरवक । न विद्यते कुत्सितो रवः शब्दो यस्य सोऽकुरवः । अकुरव एव अकुरवकः । हे अकु