________________
काव्यमाला।
वृक्षर्वसन्ततिलकायितपुष्पजात
भद्राकृतिव्यतिकरै तसूर्यकुम्भैः । जातप्रमोदगुरुरेष विशेषतुङ्गो
पूर्वापरावनुकरोति गिरिगिरीशौ ॥ ५१ ॥ नोद्यानचन्द्रकिरणाहितमारशङ्काः __सर्पाः स्फुरन्ति शबरीरहितैः पुलिन्दैः। . नोद्यानचन्द्रकिरणाहितमारशं का
नेच्छन्ति साकममरैरिह कन्दरासु ॥ ५२ ॥ हेलाविहारिचमरीगुरुपुच्छयष्टि__ सन्मार्जनीभिरपनीतरजःकणासु। . कुर्वन्त्यमुत्र लतिकाः कुसुमोपहारं • वातैर्धताः क्षितिरुहां विपिनस्थलीषु ॥ ५३ ।। आइतकाञ्चिरुचयो नवबर्हदाना __ भूर्जत्वचा रचितचारुदुकूललीलाः । गुञ्जाफलप्रथितहारलताः सहेल
मेताः पुलिन्दललनाः सरसि व्रजन्ति ॥ ५४॥
रवक हे कोमलध्वान । नेमेः संबोधननामैतत् । पुनः कीदृशी कुः । कमलारम्भा. रामा। कमला लक्ष्मीः, रम्भा अप्सरसः, ता एव रामाः स्त्रियो यस्यां सा । गिरिभूमौ रामाः क्रीडार्थमायान्ति । अत्र कमलारम्भा एव रामा ज्ञेयाः। तथा-अकु. रवककमला । कुत्सितं राजन्त इति कुरा न कुरा अकुराः शोभमाना वका वृक्षवि. शेषाः कमला हरिण विशेषाश्च यस्यां सा अकुरवककमला ॥' इति. १. वनमयूरयुद्धारोपितमरणशङ्का इत्यर्थः. २. उद्यानेन चन्द्रकिरणैश्च धारितं कामसुखं का नेच्छन्तीत्यर्थः.