________________
४६
काव्यमाला |
जलोर सिस्थपद्मपत्रकञ्चकं वपू रसाकुलं वहत्यसौ स्फुरत्सितद्विजम् । अशोकमालिनी नदी यथा वधूर्वरा लसद्रुणौघलोहितांशुकावृतान्वगम् ॥ ३८ ॥
`अत्र नित्यस्फुटत्पुष्पलीलातरौ किन्नरद्वन्द्वसंगीतरम्ये गिरौ । काननान्यागता का न दिव्या वधूः स्रग्विणी जायते जातचेतोभवा ॥ भूतनिकायशुभप्रद मेरुगिरिसनाभौ
काननराजिभिरत्र हि मन्मथशरमाला ।
शश्वदुदीरित कोरकवीथिभिरुरुदेव
प्रेमणि संम्रियतेऽलिसुपिच्छनिकरकाया ॥ ४० ॥
अच्युतं विलसन्मणिचक्रकः काननावलिभासुरविग्रहः । रोचिषा हरितेन महानसौ लोकनाथ विडम्बयते नगः ॥ ४१ ॥ इह वसति विपुलगुणमणिरवनौ विजलजलपटलधरधवलतनौ ।
सततसरिदनुकृतसु विकटजटे
धरणिभृति गिरिश इव शशिकलिका ॥ ४२ ॥
आरुह्य शैलेऽत्र निःशेषघातौ तत्त्वज्ञ कीर्तिं तवाभाषमाणा ।
बध्नाति गीतं लयग्राहिरागं 'देवी न का निर्मितानेकभङ्गम् ॥ ४३ ॥
शिवाश्लिष्टकायः परित्यक्तमायः ।
अयं सोमराजी क्षपायां नगेशः ॥ ४४ ॥ मत्तेजक्षतजोक्षिताग्रनखरन्यासेन लक्ष्मीमसौ जत्वारोपकृतामिवेह दधती नि:शेषभूभृद्वसौ ।
१. विध्वङ्कमालाया नामान्तरं भवेत्.