SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ ७ सर्गः] नेमिनिर्वाणम् । इह परिविद्धा सुमदनबाणैः कुसुमविचित्रा तरुवरवीथी। नवमधुमत्तं मधुपनिकायं न खलु बिभर्ति प्रियमिव नेयम् ॥ २७ ॥ नरवरेह रतिगेहसंनिभं जलदजालकनिभाश्मसुन्दरम् । इदमुपेत्य तटमुर्वशी कथां वितनुते सह सुरैः प्रियंवदाम् ॥ २८ ॥ मोहोन्मुक्तावत्र सद्वृक्षजातौ गौरीतातोत्तुङ्गशृङ्गे नगेशे । वानप्रस्थप्राणवृत्त्यै भविष्णुः शालिन्येषा सौरिणी सर्वदैव ॥ २९ ॥ भस्मरजःपरिकल्पितभक्तिकभद्रगजेन्द्र इवायमसंनिभ । भाति पुमानिव निर्मलमौक्तिमदाम दधत्सरिदावलिभिननु ॥ ३० ॥ नवमधुपद्वयविभ्रमसजं यदुवर सौरभराजि तवेदम् । प्रतिनदि तामरसं मुखरागं कलयति चारुदलाधरलेखम् ॥ ३१ ॥ भव्यजनानां विरचितयत्न प्रौशुतटोर्वीस्थलकमलेषु । गौरवसीम्नि क्रियत इहोइँः प्रत्यवबोधो दिनकरपादैः ॥ ३२ ॥ समकाञ्चनलोष्टमनुन्मनसं सकलेन्द्रियनिग्रहबद्धरसम् । जिन तोटकमागमनस्य भवे शिरसैष बिभर्ति तपखिगणम् ॥ ३३ ॥ नलिननयननिर्गामिनिर्झरोधप्रतिमरुचिभिरह्नां क्षयेषु नूनम् । ब्रजति बहुलतामीश चन्द्रिका प्रतिमितमणिसानूत्थरश्मिपूगैः ॥३४॥ जनस्य चेतो भवविकारमुद्धतं समर्पयन्ती मधुरकेलिनादजम् । गजेन्द्रगामिनिह हि मञ्जुभाषिणी पिकी सदानित्यसहकारकोरके ॥३५ मार्तण्डारिस्या(श्या)मलसत्काम्बुदजातौ शैलाधीशे निर्मलनानागुणकाय । सद्यः पुष्पामोदगुणानन्दितभृङ्गं किं किं नास्मिन्मत्तमयूरं वनमीश॥३६॥ सरसप्रभञ्जनधुता पतन्निजप्रसवोद्भवेन रजसा तनीयसा । अलिनन्दिनीयमनपेक्षितक्षणा जगदीश वासयति पाटला नगम् ॥३७॥ १. शालियुक्ता, छन्दश्च. २. स्वल्पनदी. ३. सान्द्रपदस्यैव छन्दसो नामान्तरं भवेत्. 'सान्द्रपदं स्याद्भतनगलैश्च' इति छन्दोमञ्जरीपरिशिष्टम्.
SR No.090299
Book TitleNeminirvanam
Original Sutra AuthorVagbhatt Mahakavi
AuthorVagbhatt Mahakavi
PublisherPandurang Javji
Publication Year1936
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Biography
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy