SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ 88 काव्यमाला | यशोभिरिव निर्झरैः प्रसवद्भिराभात्यलं : गरिष्ठ करुणालयस्त्वमिव देव पृथ्वी गुरुः ॥ १८ ॥ इहोच्चावचप्राववैषम्यनेयप्रचाराः प्रभो बिभ्रतः खादु तोयम् । धुनीनां भुजङ्गप्रयातं प्रवाहा दधत्याशु भङ्गं व्रजन्तः सुवायौ ॥ १९ ॥ आगत्यागत्य पुष्पस्तबकशतपतद्भङ्गभारावनम्रं भर्तः कान्तारमेतद्बकुलविटपिनां प्रेरिता मन्मथेन । दिव्यस्त्री स्रग्धरास्मिन्न भवति कतमा प्राप्य पुष्पावचायं श्रान्तखेदोदबिन्दुप्रकरहरपरा मन्दमन्दारवायौ ॥ २० ॥ जगत्पते जलरुहरोहिसौरभं समीरणं परिचितनिम्नगात्रजम् । वहत्यसाविह परिशोभितानिशं गणैर्महीभृति रुचिरा वनस्थली ॥२१॥ मोहोन्मुक्तप्रतिभचमरी पुच्छसंमार्जितोर्वी भव्याभासे सुमहति गिरावत्र चित्रार्थसानौ । द्वौ चन्द्रार्कावपि रमयते पुष्पवर्षेण मन्दा क्रान्तावातैः क्षितिरुहततिः क्रान्तपर्यन्तशृङ्गैः ॥ २२ ॥ जनं गुणैर्भूषयसि त्वमद्भुतप्रताप वंशस्थममुं यथा निजैः । वसुंधराभृद्वलयं तथामराश्रयं सदायं गिरि सत्यवैभवः ॥ २३ ॥ सहजाणुरौषधिरियं महती ज्वलिता भवत्यधिनिशं महसा । प्रमिताक्षरा तव सदर्थबहुप्रसरेण वागिव लसद्यशसः ॥ २४ ॥ यदुपान्तिकेषु सरलाः सरला यदनूच्चलन्ति हेरिणा हरिणाः । तदिदं विभाति कैमलं कमलं मुदमेत्य यत्र परमाप रमा ॥ २५ ॥ वरणाः प्रसूननिकरावरणा मलिनां वहन्ति पटलीमलिनाम् । तरवः सदात्र शिखिजातरवः सरसश्च भाति निकटे सरसः ॥ २६ ॥ १. वाण्याम्, पर्वतेषु च. २. वायुना सह . ३. कमलयुक्तम्. ४. जलम्, अलम्.
SR No.090299
Book TitleNeminirvanam
Original Sutra AuthorVagbhatt Mahakavi
AuthorVagbhatt Mahakavi
PublisherPandurang Javji
Publication Year1936
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Biography
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy