SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ ७ सर्गः] नेमिनिर्वाणम् । ४३ अस्मिन्मत्ता वरमणिजालौ वन्या लक्ष्मीरिव कुचतुङ्गौ ॥ ११ ॥ इह कुसुमसमृद्ध मालिनीभूय सानौ विपुलसकलधातुच्छेदनेपथ्यरम्यम् । वपुरपि रचयित्वा कुञ्जगर्भेषु भूयो विदधति रतिमिष्टैः प्रार्थिताः सिद्धवध्वः ॥ १२ ॥ अङ्गहारविधौ सुरवध्वा प्रस्तुते सविधस्थिततारम् । बिभ्रतस्तपनामृतभासौ कोऽस्य नैव तटो मणिरङ्गः ॥ १३ ॥ 'रोचिरीश्वररथोद्धता घनप्रस्थगैरिकरजस्ततिर्गिरौ । अत्र राजतितरां दवानलोद्दामदीप्तिरिव लोहितान्वगम् ॥ १४॥ नलिननयन स्वामिन्नस्मिन्मुनीन्द्रवने सदा स्मरवरतनो नित्योत्फुल्लप्रसूनमहीरुहे। रविकरपरीतापाच्छायामुपेत्य विसाध्वसा ___ लसति हरिणी सार्धं वध्वा कुरुङ्गकृषोऽन्वगम् ॥ १५ ॥ अमरनगरस्मेराक्षीणां प्रपञ्चयति स्फुर त्सुरतरुचये कुर्वाणानां बलक्षम रहँसम् । इह सह सुरैरायान्तीनां नरेश नगेऽन्वहं .. ____ सुरतरुचये कुर्वाणानां बलक्षमरं हसम् ॥ १६ ॥ बध्नाति रक्तोपलरश्मिदत्तशोणद्युतिर्निर्झरवारिवीथी । अत्रेन्द्रवज्राहतशैलकुञ्जकीलाललक्ष्मी बहुधातुभङ्गौ ॥ १७ ॥ जपाहितरुचिस्तनुं मदनदर्शनीयामसौ जनप्रमदकारणं दधदुपात्तसन्मानसः ! १. सूर्य. २. सिंहस्य. ३. वृक्षविशेषाणान्. ४. वेगम्.
SR No.090299
Book TitleNeminirvanam
Original Sutra AuthorVagbhatt Mahakavi
AuthorVagbhatt Mahakavi
PublisherPandurang Javji
Publication Year1936
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Biography
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy