________________
वेत् । तथा अचैतन्यपक्षेऽपि सकलचैतन्योच्छेदः स्यात् । मूतस्यैकांतेनात्मनो न मोक्षावाप्तिः स्यात् । अमूर्तस्यापि आत्मनस्तथा संसार विलोपः स्यात् । एकप्रदेशस्यैकांतेनात्मनोऽनेकक्रियाकारित्वहानिः स्यात् । अनेकप्रदेशत्वेऽपि तथा तस्य नार्थक्रियाकारित्वं स्वस्वभावशून्यताप्रसंगात् । शुद्धस्यैकांतेनात्मनो न कर्मकलंकाबलेपः सर्वथा निरअनत्वात् । अशुद्धस्यापि तथात्मनो न कदाचिदपि शुद्धबोधप्रसंगः स्यात्तन्मयत्वात्. [१] उपचरितैकांतपक्षेऽपि नात्मज्ञता सम्भवति नियमितपक्षत्वात् । तथात्मनोऽनुपचरितपक्षेऽपि परज्ञतादीनां विरोधः । उभयैकान्तषक्षेऽपि विरोधः एकांतत्वात् । तदनेकान्तत्वेऽपि कस्मान्न भवति ! स्याद्वादात् । स च क्षेत्रादिभेदे दृष्टोऽहिनकुलादीनां । स च व्याघातकः, सहानवस्थालक्षणः, प्रतिबंध्यप्रतिबंधकश्चति अनवस्थानादिकं वा । तत्रानवस्थानं द्विविध, गुणानामेकाधारत्वलक्षणं, गगनतलावलम्बीति । संकरः व्यतिकरः अनवस्था अभावः अदृष्टकल्पना दृष्ट परिहाणिः विरोधः वैयधिकरण्यं चेति अष्टदोषाणां एकांते सम्भवः ।
नानास्वभावसंयुक्तं द्रव्यं ज्ञात्वा प्रमाणतः । तच सापेक्षसिद्धयर्थ स्यान्नयैमिश्रितं कुरु ॥१॥ भावः स्यादस्ति नास्तीति कुर्यान्निर्बाधमेव तम् । फलेन चास्य सम्बन्धो नित्यानित्यादिकं तथा ॥२॥ स्वभावस्वभाविनोः स्वरूप प्रमाणनयविषयं व्याचष्टे---
अत्थित्ताइसहावा सव्वा सम्माविणो ससम्भावा । - १ अशुद्धस्वाभावमयत्वात् । शून्यत्वादित्यपि पाठः ।