________________
एकविंशतिस्तु स्वभावा द्वयोस्त्रयाणां तु षोडश भणिताः ।। पंचदश पुनः काले द्रव्यस्वभावाश्च ज्ञातव्याः ।। . ... स्वभावस्वभाविनोः स्वरूपं प्रमाणनयविषयं व्याचष्टे
सर्वथैकांतेन सद्रूपस्य न नियतार्थव्यवस्था सङ्करादिदोषत्वात् तथा स्पस्य सकलशून्यताप्रसंगात् [१] । नित्यस्यैकस्वरूपत्वात् एकरूपस्यार्थक्रियाकारित्वाभावः, अर्थक्रियाकारित्वाभावे द्रव्यस्याप्यभावः । अनित्यपक्षेऽपि निरन्वयत्वादर्थक्रियाकारित्वाभावे द्रव्यस्याप्यभावः । एकरूपस्यैकांतेन विशेषाभावः सर्वथैकरूपत्वात् । विशेषाभावे (२)सामान्यस्याप्यभावः। भनेकपक्षेऽपि तथा द्रव्याभावो निराधारत्वात् । भेदपक्षेऽपि विशेषस्वभावानां निराधारत्वादर्थक्रियाकारित्वाभावः । अर्थक्रियाकारित्वाभावे द्रव्यस्याप्यभावः । अभेदपक्षेऽपि सर्वथैकरूपत्वादर्थक्रियाकारित्वाभावः । अर्थक्रियाकारिवाभावे द्रव्यस्याप्यभावः । भव्यस्यैकांतेन परपरिणत्या संकरादि (३) दोषसम्भवः । अभब्यस्यापि तथा शून्यताप्रसंग: स्वरूपेणाप्यभवनात्। स्वभावरूपस्यकांतेन संसाराभावः । विभावपक्षेऽपि तथा मोक्ष. स्थासम्भवः । चैतन्यमेवेत्युक्त सर्वेषां शुद्धज्ञानचैतन्यावाप्ति.
१ 'सर्वथैकांतेन ' इत्यत भारभ्य ' शून्यताप्रसंगा'दित्येतावत्पाठः ख-पुस्तके नास्ति ।
२ निर्विशेषं हि सामान्य भवेच्छशविषाणवत्। सामान्यरहितत्वाच विशेषस्तद्वदेव हि। ___३ संकरवतिकरविरोधवैयधिकरण्यानवस्थासंशयाप्रतिपत्त्यभावाचे सष्टौ दोषाः ।