________________
छवि जीवपोग्गलाणं इयराण वि सेस तितिभेदा ॥१५॥ एकैकस्मिन्नष्टाष्टौ (१) सामान्या भवंति सर्वव्याणाम् । षडेव (२) जीवपुद्गलयोः इतरेषामपि शेषास्त्रित्रिभेदाः ॥
चेतनादिगुणानां * पुनरुक्तिदोषपरिहारमाहचेदणमचेदणा तह मुत्तममुत्तावि चरिम जे भणिया। सामण्ण सजाईणं ते वि विसेसा विजाईणं ॥ १६ ॥ चेतनमचेतना तथा मूर्नेऽमूर्तेजपि चरमा ये भणिताः। .. सामान्याः स्वजातीनां तेऽपि विशेषा विजातीनाम् ॥
इति गुणाधिकारः।
१ को द्वौ द्वौ गुणी हीनौ ?- जीवद्रव्येऽचेतनत्वं मूतत्वं च मास्ति, पुद्गलद्रव्ये चेतनत्वममूर्तत्वंच नास्ति । धर्माधर्माकाशकालद्रव्येषु चेतनत्वममूर्तत्वंच नास्ति । एवं द्विद्विगुणवजिते अष्टौ अष्टौ सामान्यगुणाः प्रत्येकद्रव्ये भवन्ति ।
२ जीवस्य ज्ञानदर्शनसुखवीर्याणि चेतनत्वममूर्तत्वमिति षट् ,पुद्गलस्य स्पर्शरसगंधवर्णा मूर्तत्वमचेतनत्वमिति षट् , इतरेषां धर्माधर्माकाशकालानां प्रत्येकं त्रयो गुणाः । तत्र धर्मद्रव्ये गतिहेतुत्वमचेतनत्वममूर्तत्वमिति त्रयो गुणाः । अधर्मद्रव्ये स्थितिहेतुत्वममूर्तत्वमचेतनंन्वमिति त्रयः । आकाशद्रव्ये अवगाहनहेतुत्वममूर्तत्वमचेतनत्वमेते । कालद्रव्ये वर्तनाहेतुत्वमचेतनत्वममूर्तत्वमिति वि. शेषगुणाः ।
* सामान्यगुणेषु विशेषगुणेषु च पाठात्पौनरुक्त्यम् ।