SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ (१४७ ) गुणोपचारः, द्रव्ये पर्यायोपचारः, गुणे द्रव्योपचारः, गुणे पर्यायोपचारः, पर्याये द्रव्योपचारः, पर्याये गुणोपचार इति नवविधः सद्भतव्यवहारस्यार्थो द्रष्टव्यः । उपचारः पृथग् नयो नास्तीति न पृथक् कृतः। मुख्याभावे सति प्रयोजने निमित्ते चोपचारः प्रवर्तते । सो पि सम्बंधोविनाभावः, संश्लेषः संबंधः, परिणामपरिणामिसंबंधः, श्रद्धाश्रद्धेयसंबंधः, ज्ञानज्ञेयसंबंधः, चारित्रचर्यासंबंधश्चेत्यादिः सत्यार्थः अससार्थः सत्यासत्यार्थश्चेत्युपचरितासद्भतव्यवहारनयस्यार्थः । ___ पुनरप्यध्यात्मभाषया नया उच्यन्ते । तावन्मूलनयौ द्वौ निश्चयो न्यवहारश्च । तत्र निश्चयनयोभेदविषयो व्यवहारो [१] भेदवि श्यः । तत्र निश्चयो द्विविधः शुद्धनिश्चयोशुध्दनिश्चयश्च । तत्र निरुपाधिकगुणगुण्यभेदविषयकः शुध्दनिश्चयो यथा- केवलज्ञानादयो जीव इति । सोपाधिकविषयो शुद्धनिश्चयो (२) यथा—मतिज्ञानादयो जीव इति . व्यवहारो द्विविधः सद्भूतव्यवहारोऽसद्भूतव्यवहारश्च । तत्रैकवस्तुविषयः सद्भूतव्यवहारः, (३) भिन्नवस्तुविषयो सद्भूतव्यवहार स्तत्र सद्भूतव्यवहारो द्विविध उपचरितानुपचरितभेदात् । तत्र सोपाधिगुणगुणिनोर्मेदविषय उपचरितसद्भूतव्यवहारो यथा-जीवस्य भतिज्ञानादयो गुणाः । निरुपाधिगुणगुणिनोर्मेदविषयोनुपचरितसद्भू १ भेदेन ज्ञातुं योग्यता । २ उपाधिना कर्मजनितविकारेण सह वर्तत इति सोपाधिः । ३ यथा वृक्ष एक एव तलनाः शाखा भिन्ना: परंतु वृक्ष एब, तथा सद्भूतव्यवहारो गुणगुणिनोर्भेदकथनं .
SR No.090298
Book TitleNaychakradi Sangraha
Original Sutra AuthorDevsen Acharya
AuthorBansidhar Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1920
Total Pages194
LanguagePrakrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy