SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ पर्यायं एवार्थः प्रयोजनमस्यति सादिनित्यपर्यायार्थिकः । शुद्धपर्याय एवार्थ: " प्रयोजनमस्यति शुद्धपयांयार्थिकः । अशुद्धपर्याय एवार्थः प्रयोजनमस्येत्यशुद्धपर्यायार्थिकः । हीत पर्यायार्थिकस्य व्युत्पत्तिः ।। ___ नैकं गच्छतीति निगमो विकल्पस्तत्र भवों नैगमः । अभदरूपतया वस्तुजातं संगृह्णातीति संग्रहः । संग्रहेण गृहोतार्थस्य भेदरूपतया वैस्तु येन व्यवहियत इति व्यवहारः । ऋजु प्रांजलं सूत्रयतीति ऋजुसूत्रः । शब्दात् व्याकरणात् प्रकृतिप्रत्ययद्वारेण सिद्धः शब्दः शब्दनयः । परस्परेणाभिरूंढाः समभिरूढाः । शब्दमेदेऽप्यर्थभेदो नास्ति । यथा शक इंद्रः पुरंदर इत्यादयः समभिरूडाः । एवं क्रियाप्रधानत्वेन .१) भृयत इत्येवंभूतः । शुद्धाशुद्धनिश्चयो द्रव्यार्थिकस्य मेदौ । अमेदानुपचारतया वस्तु निश्चीयत इति निश्चयः । भेदोपचारतया वस्तु व्यवहियत इति व्यवहारः । गुणगुणिनोः संज्ञादिभेदात् भेदकः सद्भूतव्यवहारः अन्यत्र (२) प्रसिद्धस्य धर्मस्या [३] न्यत्र (४) समारोपणमसद्भूतव्यवहारः । असद्भतव्यवहार एवोपचारः, उपचारादप्युपचारं यः करोति स उपचरितासद्भूतव्यवहारः। गुणगुणिनोः पर्यायपर्यायिणोः स्वमावस्वमाविनोः कारककारकिणोभेदः सद्भतव्यवहारस्यार्थः । द्रव्ये द्रव्योपचारः, पर्याये पर्यायोपचारः, गणे गुणोपचारः, द्रव्ये १ एवमित्युक्ते कोर्थः क्रियाप्रधानत्वेनेति विशेषणम् २ पुद्गलादौ । ३ स्वभावस्य ४ जीवादो।
SR No.090298
Book TitleNaychakradi Sangraha
Original Sutra AuthorDevsen Acharya
AuthorBansidhar Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1920
Total Pages194
LanguagePrakrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy