________________
( ७७ )
द्वितीयभेदमुदाहरति--- मणुवाइयपज्जाओ मणुसोति सगहिदीसु वदंतो। जो भणइ तावकालं सो थूलो होइ रिउमुत्तो ॥२१२॥ मनुजादिपर्यायः मनुष्य इति स्वकस्थितिषु वर्तमानः । यो भणप्ति तावत्कालं स स्थूलो भवति ऋजुसूत्रः ।।
. शब्दनयं लक्षयति गाथाद्वयेन--- जो वट्टणं ण मण्णइ एयत्थे भिण्णलिंगआईणं । सो सद्दणओ भणिओणेओ पुंसाइआण जहा ॥२१३॥ अहवा सिद्धे सद्दे कीरइ जं किंपि अत्थववहरणं । सो खलु सद्दे विसओ देवोसद्दण जह देवो ॥ २१४ ॥ यो वर्तनं न मन्यते एकार्थे भिन्नलिङ्गादीनाम् । स शब्दनयो भणितः ज्ञेयः पुंसादिकानां यथा । अथवा सिद्धे शब्द क्रियते यत्किमपि अर्थव्यवहरणम् । स खलु शब्दे विषयः देवशब्देन यथा देवः ॥
- समभिरूढनयं लक्षयति--- सद्दारूढो अत्थो अत्थारूढो तहेव पुण सदो । भणइ इह समभिरूढो जह इंद पुरंदरो सको ॥२१५॥ शब्दारूढोऽर्थोऽर्थारूढस्तथैव पुनः शब्दः । भणतीह समभिरूढो यथेन्द्रः पुरन्दरः शक्रः ॥
एवंभूतनयं लक्षयति- . जं जं करेइ कम्मं देही मणवयणकायचेठादो । तं तं खुणामजुत्तो एवंभूदो हवे सणओं ॥२१६॥