________________
14
अमरकीतिविरचितभाष्योपेता पञ्च कार्यविलम्बे (म्बिते)। शीतं लाति मन्दी भवति कार्ये शीतलम् । ताम्यति स्वकार्यमिच्छति तिमिरम्' । स्तिमितं स्थिमित या पाठः । यथा भवं याथम् । मन्यते मन्दम् । विलम्ब्यते स्म विलम्बितम् । विधि जानीहि ।
स्वभावः प्रकृतिः शीलं निसगों विश्वसो निजः ।
पञ्च स्वभावे निजे। स्वः स्वकीयो भावः स्वभावः। प्रकरणं प्रकृतिः 1 शोल्यते शीलयति ___ वा शीलम् । निसृत्यते निसर्गः । विश्वसितोति विश्वसः । विश्वासश्च । विश्वम्भः |
योग्या गुणनिकाऽभ्यासः त्रयोऽभ्यासे | युज्यते योग्या । गुण्यते ऽहर्निशं गुणनिका । अभ्यसनमभ्यासः ।
स्यादभीक्ष्णं मूहुमहः ।। १८५ ॥ मुर्मुरिं वारं स्यात् भवेत् । अभीक्ष्णम् । अभीक्षणम् अभीक्ष्णम् । अभिमुखमीक्षते * वा अभीक्ष्णाम्" । नितराम् ।
मृषालीकं सुधा मोघम् । चत्वारोऽलीके । मृष्यते सहते नारकं दुःखमनेन मृषा | श्राद-तमम्पयम् ! अलति स्वस्वाङ्गा(स्वर्गा)निवारयति अलीकम् । मुञ्चति त्यति निमित्त मुधा | श्रादन्तमव्ययम् । मुह्यतेऽत्र चित्तं मोघम् ।
विफलं वितथं वृथा। निष्फलवचने त्रयः । विगतं फलं विफलम् । विगतं तथा सत्यं यस्मात् वितथम् । वृणोत्याच्छादयति गुणान् वृथा । अव्ययम् ।
विधुरं व्यसनं कष्टं कृच्छंगहनसुद्धरेत् ।। १८६ ॥ पञ्च कष्टे । फष्टेन विधुनोति शरीरं विधुरम् । व्यस्यते अनेन व्यसनम् । कष्यते २० (काति) कष्टम् । कृणोति छिनत्ति दुःखेन कृच्छ्रम्" । गाह्यते गहनम् । उद्धरेत् निस्तरेत् ।
समस्तं सकलं सर्वं कृत्स्नं विश्वं तथाऽखिलम् | घट् समस्ते । समस्यते एकीकरोति समस्तम् । समं प्रसते समग्रम् । समान कलयतीति ''सकलम् | सरति सर्वम् । कुन्तति वेष्टयति व्याप्नोति कृत्स्नम् । विशति विष्ठति सर्वत्र विश्वम् । नास्ति खिलं शून्यमस्याखिलम् । निखिलं च ।
१. "तिम आभावे"। तिम्यति पाद्रीभवति तिमिरः । विलम्बशीलो जनः सर्वदाऽ इव शीतः स्फूर्तिरहितश्च भवति। २. विश्वसशब्दस्य प्रकृत्यर्थे प्रमाणान्तरं नास्ति । एवं विश्वासो विधम्भोऽपि | विश्वसशब्दाऽन्वाख्यानमपि व्याकरणादस्पष्टम् । अतोऽत्र त्रिष्वपि मूलाटीक एवं प्रमाणम् । ३. योगे चित्तकाम्ये साध्वीति योग्या 'तत्र साधु"रिति यदन्यत्र । ४. गुण्यते गुणना। चुरादिणिजन्ताद् भावे "ण्यासअन्येति युच् । ततः स्वार्थे कः । गुरगनैव गुणनिका । ५. अभिक्षणौति अभीक्ष्याम् । "क्ष्णु तेजने" । बाहुलकाहभुः । अन्येषामपीति दीर्घः । इति रामाश्रमः । ६. अत्र भूषाऽलीकशब्दो वक्ष्यमाणा वितयशब्दश्चासत्यवाचकः । मुघामोषशब्दौ विफलवृथाशब्दो च वक्ष्यमाणी व्यर्थवाचका हति विधेको:न्यत्र । तदुतममरे-"मृषा मिथ्या च वितथे" ३।४।१५ । "अलीकं स्वप्रियेऽनने" ३।३।१२ । “मोघं निरर्थकम्" ३।१।८१ । व्यर्थके तु वृथा मुधा, ३।४।४ । “वितथं त्वनृतं वचः" १।८।२१ । इति । ७. कर्षति कृन्तति वेति क्षी० स्वा०। ८. समस्यते स्म समस्तम् । “अमु क्षेपणे"। कर्मणि कः । ६. सङ्गतमममस्य समयम् । १०. सह कलाभिर्वर्तते समलम् ।