________________
नाममाखा नितरां गुप्तो घीयते प्रणिधिः। निगूढश्चासौ पुरुषः निगूलपुरुषः । चरतीति चरः । स्पशः । 'यथार्थवर्णः । मन्त्रशश्च ।
तद्वानुक्तः सहस्राक्षः तस्मात् पूर्वोक्तशब्दात् परं धान् इति प्रयुज्यमाने सहस्राक्षनामानि भवन्ति । निगूदपुरुषवान् । चरवान् इत्यादीनि ज्ञातव्यानि ।
सत्यार्थे सूनृतं ऋतम् ॥१८२॥ सत्यार्थे द्वौ । सु सुष्ट्र ऋतं सत्यं सूनृतम्। पृषोदरादित्वान्नाटागमः। अच्छति गच्छति जनः प्रत्ययमत्र ऋतम् । तथा चामरकोषे..-"सत्यं तध्यमृतं सम्यक् ।"
निस्तलं चतुलं वृत्तम् ___ यो वतु से । निर्गतं तसं प्रतिष्ठाऽस्य निस्तलम् । अथया निर्गतं तलादधौभागानिस्तलम् । १० भूमौ न तिष्ठति वा । वर्तते भ्रमति यलम् । वृत्यते स्म वृत्तम् । सर्वे त्रिषु ।
स्थपुटं विषमोन्नतम् । विषमोन्नते स्थपुटम् । स्थापयत्यात्मनो विषमोन्नतत्वे स्थपुटम्। प्रायः क्लीये।
दीर्घ प्रांशु द्वौ दीर्घ । दृणावि दीर्घम् । प्राश्नुते व्यानोतीति प्रांशु" ।
विशालं च बहुलं पृथुलं पृथु ॥१८३॥ चत्वारो विस्तीर्णे। विस्तार विशति विशालम् । बहून् लातीति बाहुलम । प्रयते वर्धते पृथुलम् । गुणमात्रयतेलः । पर्थते पृथुः। बृहत् । उहः । गुरुः । विस्तीर्णः |
उल्बणं दारुणं तिग्मं घोरं तीब्रोग्रमुस्कटम् । सप्त घोरे । उल्वणत्युषणम् । पृषोदरादित्वात्पने लः । दारयति दारुणम् । तितिक्षतीति २० तिग्मम् । पुरति घोरम् । तीवन्ति तीवम्। तीव स्थौल्ये रक्। उच्यति उपम्' । उकल्यते उत्कटम् । प्रतिभयम् | भीमम् । भयानकम् । अाभीलम् । भीषणम् | भीष्मम् । भैरवम्।।
शीतलं तिमिरं याथं मन्द विद्धि विलम्बितम् ॥ १८४ ॥ १. यथार्थं यथा अर्थ: प्रयोजनं वर्णो बातिः प्रसिद्धिर्वा यस्येति तदर्थः । २. श्रम को. १।७।२२। ३. वस्तुतस्तु प्रोशुदीर्घयोरर्थभेदः । दीर्घविस्तृतायतशब्दाः पर्यायाः। प्रांशुस्तुन्नतः। तदुक्तम्-- 'दीर्घमायतम्" अमल को० ३।१।७० । ४. "दु त्रिदारणे' । बाहुलकाद्धक । दृणाति हस्वावमिति दीर्घः । ५. प्रकृष्टा अंशवोऽस्येत्यपि । ६. “विश प्रवेशने । बाहुलकादालः । रामाश्रमस्तु-"वेः शालनकटचौ" इतिः पा० सूत्रेण विशब्दाच्छालप्रत्ययमाह । ७. उदणतीति उल्वणम् | पृषोदरादित्वादुदोल इति पाठोत्र युक्तः । “वण शन्दे" | अच् । उल्वणशब्दो वस्तुतः स्पष्टार्थकः, न तु दारुणार्थकः | स्पष्टो [वेजको भवति खलानाम् | अत उद्रे जकत्वसामान्यात्तथाह | ८. तितीक्षतांति क्षमार्थकत्वान न युक्तम् । "तिज निशाने" । निशानं तिक्ष्णीकरणम् । तेजयतीति तिग्मम् । मक्प्रत्ययः । ६. "धुर भीमार्थशब्दयोः" । घोरयतीति घोरम् । ग्यन्तादच् । १०. उच्यति कुघा सम्बध्यते उग्रम् । 'उच समवाये" | दिवादिः । "ऋजेन्द्र" इत्यादिना रक् गश्चान्तादेशः।