________________
नाममाला
भावस्तारण्यम् । भावार्थे यण् । यूनो भावी यौवनम् ।
अन्त्यो वार्दीनः स्थविरो मतः । __ यो वृद्धे । अन्तं भवोऽन्त्यः। वृद्ध नियुक्तो वासनः' । तिष्टतीति स्थपिरः । गतिभवाम्मतः कथितः । प्रवयाः । यातयामः । दशमीस्थः । जरन् । बरठः । जीर्णः । वृद्धः।।
बंशोऽवयोऽन्ववायः स्यादानायः संततिः कुलम् ।। १२४ ॥ ५ पड़ वंशे । उश्यते काम्यते जनेन वंशः । पुस । अन्वयते सन्ततिरप्रान्धयः । अन्ववैश्यपत्यमत्रान्ववायः । श्राम्नायते श्रानायः" । सम् सम्यक् प्रकारेण तनोति विस्तारयतीति सन्ततिः । सन्तनन वा सन्ततिः । कु ( को ) सति सर्वं भवत्यत्र कुलम् । उभयम् । गोत्रम् । अभिजनः |
ओघो वर्गश्च सन्तानः त्रयः समूहे ( वंशस्यावान्तरवर्गभेदे )। श्रोयते श्रोधः । शृज्यते विवातोयेन पृथक क्रियते १० वर्गः । सन्तन्यते सन्तामः। विकरः । निकायः । निवहः । विसरः । वजः । पुखः । समूहः । सञ्चयः । समुदयः । समुदायः । सार्यः । यूथः । निकुर ग्वः । कदम्बम् । पूगः । राशिः । चयः । समवायः । मण्डलम् । चक्रवालम् । जालम्। स्तोमः । ब्यूहः ।
काव्यमेव कविस्थितिः । द्वौ काव्ये । कवर्भावः काव्यम् । तथा च यशस्तिलके
"दुर्जनाना- विनोदाय बुधानां मतिजन्मने ।
मध्यस्थानां न मौनाय मन्ये काव्यमिदम्भवेत् ।।" कवीनां स्थितिः कविस्थितिः। पक्षिवर्गः प्रारभ्यते श्रीमदमरकीर्तिना--
हंसो मरालश्च क्राङ्गः प्रयो हंसे । विसं हन्ति खण्डपति, चागल्या हन्ति गच्छति वा हंसः। इन्ते: स: । मरं मलं कमलमण्डिततडायमियति गच्छतीति मरालः । चक्रमति चक्राण्यङ्गानि वा यस्य चकाङ्गः। मानसौकाः । श्वेतच्छदः ।
हंसवाहः सनातनः ।।१२४॥ हंसशब्दाद वाहशब्द प्रयुज्यमाने ब्रह्मणो नामानि भवन्ति । हंसवाहः । मरालबाहः । चाङ्ग- २५ पाइः । इत्यादीनि ज्ञातव्यानि ।
मयूरो बर्हिणः केकी शिखी प्रावृषिकस्तथा ।।
नीलकण्ठः कलापी च शिखण्डीअष्टी मरे । मयां रौति मयूरः । मीनाति बाटी- युरः । उणादौ । मीत्र हिंसायाम | मयते
१. अनान्यत्प्रमाणं नीपलब्धम् । २. यौवनमतिक्रम्य तिष्ठतीति है ० च । "अजिरशिशिरेत्यादि पाउ १।५३ इति किरप्रत्ययो जुगागमो हृस्वत्वं च | ३. वश कान्तौ" पञ् । नुम् । बन्यते कन्यतेऽनेनेति स्वामी । ४. अन्ववैति अन्वीयते । अन्वयः । “हण गती" 1 अच् । इत्यन्यत्र ५. अत्र प्रमाणम्-'थाम्नायः कुल आगमे उपदेशे" इति हैम. । ३।५।११॥ ६. सन्तन्यते सम्यग्विस्तारयतीति समाश्रमः । ७. या कहते । ऊह वितर्के । न्यवादित्वाद् हस्य घः। ८. प्रा० १ श्लोक २९॥ ९. का० उ० स० ४१५। 'वृनृवादहनिमतिकस्यशिकषेभ्यः सः" । इति ।