________________
नाममाला
लतान्तकाण्डः । लतान्तभुरतः । लतान्तनाराचः । लतान्ततोमरः। प्रसवमार्गणः । प्रसबरोपण: । प्रसवकणाः । प्रसवेषुः । प्रसवकाण्डः । प्रसवक्षुरप्रः। प्रसवनाराचः। प्रसवतोमरः। उद्गम शिलीमुखः । उद्गमशरः । उद्गमबाणः । उद्गममार्गणः । उद्गमरोपणः। उद्गमकणाः । उद्गमेषुः । उद्गमक्षुरप्रः । उद्गमनाराचः । उद्गमतोमरः । प्रसूनशिलीनुखः । प्रसूनशरः । प्रसूनवाणः । प्रसूनरोपणः । प्रसूनकयाः । प्रस्नकाण्डः । प्रसूनेः । प्रसूनारप्रः । प्रसूननाराचः । प्रसूनतोमरः । कुसुमशिलीमुखः । कुसुमशरः । कुसुमबाणः । कुसुम- ५ मार्गणः । कुसुमरोपण। कुसुमकरण:। कुसुमे ः। कुसुमकाण्डः । कुसमक्षुरप्र: । कुसुमनाराचः । कुसुमतोमरः । पुष्पशब्दाने धनुपि शब्दे प्रयुज्यमानै कन्दर्पनामानि भवन्ति । पुष्पकामुकः । पुष्पधन्वा । पुप्पचापः । पुष्पधर्मा । पुष्पकोदण्डः । पुष्पधनुः (म्बा) । लतान्तकामुकः । लतान्तधनुः (न्वा) । लतान्तचापः । लतान्तधर्मः (मी)। लतान्तकोदण्दः । लत्तान्तधन्वा । प्रसवचापः । प्रसवकोदण्डः । प्रसवपनुः (वा)। प्रसूनकामुकः । कुमुमधन्वा । कुसुमचापः । कुसुमधर्मः (मा)। कुसुमकोदण्डः । कुसुमधनुः (न्वा) । १० इत्यादीनि शालव्यानि ।
स्वान्तमास्वनितं चित्तं चेतोऽन्तःकरणं मनः ।
हृदयं विशिखाऽकृतम्
नव चिने । 'स्यम स्वन ध्वज शब्दै ।" प्राङपूर्वः 1 वनति स्म, श्रास्वनति स्म इति स्थान्तम्, श्रास्वा-तम् | "गत्या १५ निष्ठा क्तः । "चा हष्धमत्वरसंघुषाऽस्वनाम्" एभ्यः क्ते विभापये १५ भवति । वेट । 'पञ्चमो०" । "मनोरनुस्वारो' धुरि' । मनोऽर्थे अभिवाही"" त्यादिना तो नेट् । कथितस्वकथनेऽपि परत्वारपूर्वोक्तपरोक्तयोः परोक्तविधिर्बलवान् इति वचनात् । अनेन सूत्रेणायमेव विकल्पी भवति । मनोऽभिघानेऽपि परत्वादयमेव विधिर्भवति । चेतति चित्तम् । चेतति जानाति अनेनात्मा घेतस् सान्तम् । अन्तः निश्चयः क्रियतेऽनेन, अन्तःकरणम् । मन्यते बुध्यते ऽनन सान्तम् मनस्। बुद्ध्याय हरति हृदयम् । “हलो' दोऽन्तन" । दान्तं च हृद् । विगतं (ता नष्ट () शिखं (खा) २० यस्य तत्. विशिखम् | आ समन्तात् फूयते आक्रूयते ( आतम् ) । तथा चाष्टसाहस्याम् :"जाताकूतेनाकारेणेति मानसम्"।
मारस्तत्रोद्भवो मतः ॥ ८१ ॥ तत्र चित्ते उद्भधो मारो मतः कथितः । स्वान्तसम्भवः । स्वान्जः । भास्वनितजः । चित्त सम्भवः । चित्तजः । चेतस्सम्भवः । चेतोजः । अन्तःकरणसम्भवः । हृदयसम्भवः । हृदयनः । विशिखसम्भवः। २। विशिखजः । अाकूतसम्भवः । इत्यादीनि कन्दर्पनामानि ज्ञातव्यानि ।
मौर्वी जीवा गुणो गव्या ज्यापाट् गुणे । मूर्वति हिनस्त्यनया मूर्वा । तदारुणस्य तृणस्य विकारी मौ: । धनुरनया जीवतीति
१. का सू० ४।६।४९) २. #T० रन २ ४।६।९७ ३. का. सू० ४।११५५। 'पञ्चमोपधाया धुटि चागुणे" इति पूर्ण सूत्रम् । ४. का सू० २४/४४॥ ५. का० सू० ४।६।९३ । ६. प्रास्वनितमित्यत्र मनोऽर्थेऽपि परत्वात् “वा रुष्यमत्वरे" ति वेर् । आङ्पूर्वकत्वाभावे तु स्वान्तमित्यत्र "क्षुभिवाही" त्यादिनैटप्रतिषेधः । तेन स्वान्तमित्येकमेव रूपम् । आयूर्वकल्वे तु आस्वनितमाखान्तमित्युभयमित्याशयः । 9. 'ज्यनुबन्धमतिबुद्धिपूजार्थेभ्यः क्तः" इति का. ४४६६सूत्रेण ज्ञानार्थत्वावर्तमाने क्तः। ८. अन्तःशन्दस्याऽत्राधिकरणशक्तिप्रधानरेफान्ताव्ययत्वेनान्तो निश्वव इति व्युत्पत्तिनं युक्ता । अन्तर्गतं करणम्. करणानामन्तर्गतं वेति व्युत्पत्तिबोध्या । ५. का० उ० सू० २।२६ । १०. विशिखशब्दस्य हृदयार्थे न किमप्यन्यत्र प्रमाणमुपलब्धम् | अधोमुखपुण्डरीकाकारत्वावृदयस्य शिखारहितवं काश्चन्नेयम् ।