________________
नाममाला
प्रालेयांशुः, श्वेतरोचिः, शशाङ्कः, द्विजराजः, रजनिकरः, पीयूषरुचिः, निशीथिनीनाथः, जैबातृकः, मृगा, दाक्षायणीरमणः, मा' अप्युच्यते. सत्यभामेतिवत् । सुधामूर्तिः अमृतनिर्गमः, समुद्रनवनीतम् । देश्याम् ।
उडूनि भानि तारखं नक्षत्रम्चत्वारो नक्षत्रे । श्रवति प्रभाम् उड्डः । स्त्रीक्लीवे । तथा चामरसिंह ----
____ “नक्षत्रमृक्षं भन्तारा तारकाऽप्युड़ या स्त्रियाम्।"
भाति दीप्यते भम् । क्षीरस्वामिनि-""भा विद्यतेऽस्य भम् ।" तरन्त्यनया तारा' । तारपति वा। ऋणोति हिनस्ति तम् ऋक्षम् । नक्षति खे याति न तमः वि (क्ष) होति वा नक्षत्रम् । "अमि नक्षिकडिभ्योऽत्रः" । तारकं क्लीबेऽपि । यच्च" शाश्वतः--
"नक्षत्रे वाऽतिमध्ये च तारकं तारकाऽपि च ।
द्वियोम्नि पुराणौक्तिकधनच्छायः स्थित तारकै"
तत्पतिः ( नक्षत्र पर्यायेभ्यः परं ) पतिशब्दप्रयोगे चन्द्रनामानि भवन्ति । उडुपतिः । तारापतिः।। ऋक्षपतिः । नक्षत्रपतिः । उडुराजः । उडुस्वामी । उडुनाथः । नदात्रेश्वर: । तारेन्द्रः ।
निशा। क्षणमा रजनी ना दो. त्याला शिक्षा ___सत रात्रौ । निशाति तनूकरीति चेष्टामिति निशा, निशो वा । 'आत चोपसमें" । क्षणमवसरं ददातीति क्षणदा । तमसा रक्षति रजनिः । स्त्रियामीः। रजनी। रजनशब्दाद् वा नदादिवादीः। नैनेक्ति नक्तम् । दुष्टं दूषयति याऽत्र दोषा । श्रादन्तोऽव्ययाऽनव्ययः । श्यायन्ते गच्छन्ति २० रात्रिचरा अत्र श्यामा । तथाऽनेकार्थ' (ध्वनि) मञ्जयाम्
"श्यामा रात्रिस्तु विद्यामा श्यामा स्त्री मुग्धयौवना ।
श्यामा प्रियङ्गराख्याता श्यामा स्याद् वृद्धदारिका ||"
क्षिप प्रेरणे । क्षिप् । क्षेपणं क्षिपा। "५२ऽनुबन्धभिदादिभ्यस्त्वङ् ।" चिप्यत स्वापेन जनै निर्गम्यते वा । तमी। तमा नादन्तोऽव्ययानव्ययः । तमिला । तमस्विनी । विभावरी । नतमुखा । शर्वरी त्रियामा । निशोथिनी। यामिनी। वसतिः । वासतेयो । रात्रिः ।
१, "लोपः पूर्वपदस्य च अप्रत्यये लथैवेष्टः" इति कात्यायनवार्तिकम् ।।३।८३. पा. सूत्रस्थं पूर्वपदलोपविधायकमत्र प्रमाणं बोध्यम् । २. "देशी" शब्दः प्रान्त भाषावाचकः। क्षीरस्वामिकृताम्मरभाष्येऽपि बहुत्र उपलभ्यते । साघुत्तमस्य पचादेराकतिगणस्त्रात् "देवी" इतिवद् बोध्यम् । वस्तुतस्त्वयं शब्दो देशिक एव । ३. भवति प्रभां रक्षतीति ऊः । "अव रक्षणे" विप् । “ज्वरत्वरे" त्यूट । डयते इति डुः। डयतेईप्रत्ययः । ऊश्वासी दुश्चेति कर्मधारयः । नक्षत्राणां रक्षणाईत्वादाकाशोत्पतन शीलत्वाच उडत्वमुपपत्रम् | "इको हृस्वः" इत्यूकारस्य दृस्व इति रीकाशमः । ४. अम० को० ११३२१॥ ५. क्षीर० भा० १।३।२२। ६. भिदादित्वादङ् । अहि परे गुणः । निपातनादीर्घः । ७. ऋषति गच्छति "ऋषी गती" तुदादिः । औणादिकः संप्रत्ययः किन् । प्रत्वकत्वक्षत्वानि । क्षमिति | ८. का० उ० सू० ३५। ९. "यच्च शाश्वतः” इत्यारभ्व "स्थित तारकैः' इत्यन्तः पाठः १।२२। क्षीरस्वामिभाध्यस्थोऽत्र गृहीतः । १०, का० सू. ४।५।८४॥ ११, ९६ श्लो० श्लोका । १२. का० सू० ४/५/८२ ।