SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ नाममाला खलति सजनगुणानाच्छादयतीति खलः । न मैत्री हिनोति गच्छति, न हितो वा. 'अहितः । अभियातिः, प्रतिपक्ष : असहन:, जिघांसुः, परिपन्थी, परः, असुहन, अपथी, पर्यवस्थाता, शात्रवः, प्रत्यनीका, द्वेषणः, दुह द्, दस्युः, अभिमन्थी । दीधितिभानुरुखोंऽशुर्गभस्तिः किरणः करः । पादो रुचिमरीचिर्भास्तेजोऽचिंगौद्युतिः प्रभा ॥४५॥ षोडश किरणे। दिधीते दीप्यते दीधितिः । दीधीडो डिति:" दीधीङो धातोडितिः प्रत्ययो भवति । 'भा दीप्तौ' भाति भानुः । “दाभारिवृत्रभ्यो नुः ।" एभ्यो नुः प्रत्ययः स्यात् । वसति रवी * उस्रः | पुंसि । अश्नुते जगद् व्याप्नोति अंशुः । स्त्री । उणादी । अनन् । अनितीति अंशुः । अनेः" शुः" अनेधांतोः शुप्रत्ययो भवति । [भा दीप्तौ" भाति भानुः : "दाभारी" ! गां भुवं बभस्ति "गभस्तिः । “वर्णागमो गवेन्द्रादौ सिंहे वर्णविपर्ययः । षोडशादौ विकारस्तु वर्णनाशः पृषोदरे।'' __ कीर्यते किरणः । हलायुधे-'फिरति विक्षिपति तमांसि किरणः ।" .. ९ कभूम्यां कनः | कोर्य ते करः । पद्यते पादः। ५ पदरुजविशस्पृशोचा छन । रोचते रुचिः । नियते तमोऽनेन मरीचिः। स्त्रीनोः । उणादौ । म्रियते मरीचिः | "मृणिभ्यामीचिः" श्राभ्यामीचिः प्रत्ययो भवति : भासने २५ क्रिपि सान्तो भास्। स्त्रीनोः।" पुस्येवेति शब्दभेदः । भाः । भासी । भासः । तेजयतीति तेजस् । अर्चयतीति अचिम् । अन्य ते पूज्यते अर्चिः । “अर्चि 'शुचिरुचिहुपिछदिछर्दिम्य इसिः।" गच्छति तमोऽत्रीदिते गौः । स्त्रीनोः । योतनं द्युतिः । द्योतते (वा) द्युतिः । प्रभाति प्रभा। रोचिः, अभीशुः, प्रद्योतः, रश्मिः, घृणिः, रूचिः विभा, धाम, वसुः, केतुः, प्रग्रहः, उपधृतिः, धृष्णिः, पृश्निः, मयूखः, विरोकः. शेकश्च । दीप्तिज्योतिर्महो घाम रश्मिरूजों विभावसुः ।। सप्त तेजसि । दीप्यते दीप्तिः। द्योतते ज्योतिः । 'ज्योतिरादयः'३ । ज्योतिर्महिरादयः । महति महः ५४ । सान्तम् । घीयते सूर्वेण न.न्तम् धामन् । रशिः सौत्रः । रशति प्रश्नुते रश्मिः । "ऊर्च बलप्राणनयोः । ऊर्जयतीति ऊर्जः। कः । [ "विभा वसुर्यस्य स विभावसुः । विभा । वसुः । ) शीतोष्णप्रायपूर्वाञ्चौ तदन्ताविन्दुभास्करौ ॥४६॥ तयोरन्तौ 'तवन्तौ । इन्दुभास्करी। इन्दुश्च भाकरश्न इन्दुभाकरी । कथंभूती ! शीतोष्ण १. न मैत्री हिनीतिस्मेति भूते विग्रहो बोध्यः । गत्यर्थत्वाकर्तरि नः । न हितमस्मादिति रामाश्रमः | २. का० उ० सू०६।२६। ३. का० उ०म० २१७ ४ "स् निवासे' वस् घातोः 'स्फाथि तची त्यादि उ० सूत्रेण रक्प्रत्ययः सम्प्रसारणं च | ५. का० उ०म० ५/४८ | अंशपति विभाजयति "अंश विभाउने" उप्रत्ययः व्युत्पत्त्यन्तरं च । ६. पुनक्तत्वात्परिहार्यः । ७. अभस्ति दीपयति । "भस भर्सनदीस्योः'। तिप्रत्ययः | पृषोदरादित्वात्लोडशादी वर्णविकारवदोकारस्याकारः । ८. शा. मू. २५२१७२। "पृषोदरादयः” इत्यत्र कारिकारूपेण पटितः । १ का. उ. सू० ६।१४। १२. का मू० ४।५।१५ ११ का उ. सू. ३।४३। १२. का० उ० सू. २।४४। १३. का. उ० सू० २१४५। ५१. महर्न महः । मद्यते पूज्यते वेति रामाश्रमः । १५ वस्तुतस्तु "विभा'' इति "सु" इति च नमः संज्ञा | समुदितो “विभावसु" शब्दस्तु सूर्याग्निवाची । तदुक्तं "सूर्यवहीं विभाघरम्” इति अम० को ३३॥२२६1 १६. ते दीधित्यादयः शब्दा अन्ते ययोस्तौ तदन्तौ इत्येन्त्रं समासो बोध्यः । तयोरन्ताविति समासस्तु लेखकप्रमादात्प्रयुक्तः ।
SR No.090291
Book TitleNammala
Original Sutra AuthorDhananjay Mahakavi
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year1950
Total Pages150
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy