________________
५०
अमरकीर्तिविरचितभाष्योपेता श्यविवृतिमहिन्योऽनिः ।" एभ्योऽनिः प्रत्ययो भवति । "टु उ स्फूर्जा वज्रनिर्घोघे" स्फूर्जतीति वाम् । शूद्रादयः२-"शूद्रोग्रवज्रविप्रभद्रगौरभेरीराः” एते रक् प्रत्ययान्ता निपात्यन्ते । पर्वतेष्वपि वति वज्रम् । उपति ज्वलति उल्का | उल् इति सौत्रोऽयं धातुर्वा |
परिषत्कर्दमः पङ्कः त्रयः कर्दमे । परि समन्ताद् भाराक्रान्तः सोदति गन्तुं न शक्नोतीति परिषत् । “सत्यू द्विपद्धहदुहयुजविदभिदच्छिदनिनीराजामुपसर्गे" एषामुपसर्गे ऽनुपसर्गेऽपि नाम्युपधात्विम्। कृणोति चटा हिनस्तीति कर्दमः । 'पृथिचरिकर्दिभ्योऽमः" । पच्यते विस्तार्यते वर्षाकालेन पङ्कः । उभयम् । उरणादौ 'पन च' पनायते पन्यते धा पङ्कः । “पसिपनिभ्यां कः'' आभ्यां कः प्रत्ययो भवति । तथा चामर सिंहः
निषवरस्तु जम्बालः पङकोऽस्त्री शादकर्दमी।" निषद्बरः, जम्बालः, शादः, इचिकिलः, चिकित्सश्चानेकार्थे ।
तज्जम्
तस्मात् जम् उद्भवम् पङ्कजम् , कर्दमजम् , परिषजम् , इत्यादीनि कमलनामानि भवन्ति ।
तामरसं विदुः। कमलं नलिनं पद्मं सरोजं सरसीरुहम् ॥ २० ॥
खरदण्डं कोकनदं पुण्डरीकं महोत्पलम् ।
दश कमलनामानि भवन्ति । ताम्यति जलं कानति तामरसम्। अमरसिंहभाष्ये-"तामः प्रकों रसोऽस्य तामरसम् । तमः प्रकर्याऽयस्तारतम्यवत् ।' केन मस्तकन मल्यते धावते कमलम् । श्रिया कासाऽर्थ काम्यते वा । 'पटिकमिमुशिकुशिया कलः।" एभ्यः कलः प्रत्ययो भवति । कम्मलं च ।
नलाः सन्त्यस्य नलिनम्। नलति प्राकर्षति श्रियं वा नलिनम् । “पुलिनलितलिलिहिभ्यः २० किना' । नलं च । पद्यते पाति लक्ष्मीरत्र पद्मम् । "१ अर्तिघृहुसुधृक्षिणीपदभायास्तुभ्यो मः।" उभयम् |
सरसि तडागे जातम् सरोजम् । सरस्यां रोहति प्रादुर्भवति सरसीरुद्दम् । १ खरञ्च तद्दण्डञ्च स्वरदण्डम् । कोकाश्चक्रवाका नदन्त्यत्र कोफनदम् । क्लीवे | [ रक्त ] कुमुदम्'२ । रक्तकमलञ्च । विशेषणम् [ कुमुदकमलविशेषे ] | पुणति माङ्गल्यात्वात्पुण्डरोकम् । म ( मुट) प्रमर्दने
स्थाने। पुण्डिरित्येके । पुण्डति पुण्डरीकम् । भाष्यकर्तृमते पुण शोभे । पुणति अल्पति २५ शोभा पुण्डरीकः । "अनुनासिकान्ताड्डः" अनुनासिकान्ताद्धातोर्डः प्रत्ययो भवति । महच्च तदुत्पर्ल त्र महोत्पलम् । तथा च हुलायुधः- "पुण्डरीक ५४ सिताम्बुजम् ।"
१. स्फूर्जतीति विग्रहे स्फूर्जधातो बजादेशी रकप्रत्ययश्च निपात्यः । बज गतौ। बबत्तीति विग्रहे केवलं रक् । २. का० उ० २।१५। ३. का० सू० ४।३।७४ । ४. का० उणादौ एतत्सूत्रं नास्ति । पाः उसूल ४१८४ कलिकोरम इप्यमप्र० । ५. का० उ० ५।३० । रामाश्रमस्तु पचि विस्तारे कर्मणि हलश्चेति घन इत्याह । ६. अमर० १३१९ । ७.क्षी० भा० ११९१४०। ८. का उ०६।१ । ९. का. उ०६।६ । १०. का ३० १।५३। १२. खरो दण्डो यस्येति विग्रहो न्याय्यः । १२. श्रथ कोकनदं रक्तकुमुद रक्तपंकजे इति मेदिनी तद्विशेषे प्रमाणम् । १३-पारीकादयश्च पा० उ० ४।२० इति मुद्घातो रीकन्त्ययान्तः पुण्डरीकशब्दो निपात्यते । रामाश्रमस्तु पुविधातोररीकन्प्रत्ययमाई | भाग्यकर्त मते पुण्ठ धातोररीकप्रत्ययो डान्तागमश्चेत्युभयं विधेयम | केवलं डप्रत्ययस्तु न युक्तः । १४. इलायुधः ३३५८ ।