________________
अमरकीतिविरचितभाष्योपेता "अपश्च' " इति घुटि दीर्घः। श्रापः । अधुस्वरत्वात् शसादेर्न दीर्घः। अपः। "अपां- मेदः ।" इति विभक्तिभे पस्व दः । अदिः । अयः । अभ्यः । अपाम् | अप्सु । "3 वर्गादेः शुषसेषु द्वितीयो वा ।' अफ्सु । अप्सु । श्रामन्त्रणे हे आपः । वैवेष्टि देई शैत्येन व्याप्नोतीती विधम् । उभयम् । घनरसः, पुष्करम. मेघपुष्पम्, 'पानीयम, उदकम्, चीरम्, भुवनम्. दकम्, कमलम, कौलालम, अमृतम्, करन्धम् , सर्वतोमुत्रम्, ५ श्रानत इति नानार्थे ।
तत्पर्य्यायचरो मत्स्यस्तत्पर्यायप्रदो घनः ।
तत्पर्यायोगवं पद्मं तत्पर्यायघिरम्बुधिः ।। १६ ॥ तस्य पर्यायस्तत्पर्याया, तत्परं चरशब्दे प्रयुज्यमाने मत्स्यनामानि भवन्ति । वार्चरः, बारिचरः, कचरः, पयश्चरः, अन्भश्चरः, अम्बुचरः, पाथश्चरः, अर्णश्चरः, सलिलचा,जलचरः, शरचरः,चनचरः, १० कुशचरा, नीरचरः, तोवचरा, जीवनचरः, अपचरः, विषचरः । पदप्रयोगे वारिपर्याय शब्दाने घनस्य
नामानि भवन्ति । वार्षदः, वारिप्रदा, कम्मदः, पयःप्रदः, श्रम्भ प्रदः, अम्बुप्रदः, पाथःप्रदः, अर्ण प्रदः,सलिल. प्रदः,जलप्रदः, शरप्रदः, कुशप्रदः, नीरपदा, तोयप्रदः, जीवनप्रदः, अप्पदः, विषप्रदः। इत्यादीनि घननामानि । तत्पर्यायोद्भवं पद्मम् । वारिपायशब्दाने उद्भवंप्रयुज्ये उद्भक्शब्दप्रयोगे कमलनामानि भवन्ति | वाम्भवम् , वायुद्भवम्, कमुद्भवम् , फ्यउद्भवम्, अम्भउद्भवम्, अम्बूद्भवम्, पाथउद्भवम्. अर्ण उद्भवम्, सलिलोद्भयम्. जलोद्भवम्, शरीद्भवम्, वनोद्भवम् , कुशोद्भवम्, नीरोद्भवम्. तोयोद्भवम्, जीवनोद्भयम्, अबुद्भवम्, विषोद्भवम् । तत्पर्यायधिरम्बुधिः । वाः शब्दा ( शब्दपर्याया) ने धिप्रयुज्ये धिशब्दप्रयोगे अम्बुधिनामानि ज्ञेयान । वार्षिः, वारिधिः, कन्धिः, पयोधिः, अम्भोधिः, अन्बुधिः, पाथोषिः, अोधिः, सलिलधिः, जलधिः, शरधिः, वनधिः, कुशतिः,नीरधिः, तोयधिः, जीवनधिः, अब्धिः, विषधिः |
युगेमा पदक्षीणो यादो वैसारिणो झपः।
विसारी शफरी मीनः पाठीनो (s) निमिपस्तिमिः ॥१७॥ एकादश मत्स्ये । पृथूनि विस्तीर्णानि रोमाण्यस्य पृथुरोमा। षट् श्रदीणि स्पर्शन-रसन-प्राणचक्षुः-श्रोत्र-मनांसि यस्य सः षडक्षीणः । याति गच्छति अले, यावः । विसरति “ग्रहादेशिन विसारी मत्स्य इति । स्त्रार्थेऽण् । चैलारिणः । झषति जन्तून् दिनस्ति झवः | "सू गतौ" । स ऋ गती वा"।
स. विपूर्जा विसरति विससति वा इत्येवंशीलः,विसारी । '."विप्रतिन्यामाकः सतेर्णिन प्रत्ययः । अस्यो. २१ (स्य) वृद्धिः । विसारिन् इति जाते सिः | इन्हन् [पूर्ववत् ] ( पूषाय म्णां शौच )" | शफिति
शफरः । शफाः (न्) वायन्ते ( राति ) शीघ्रगत्वाच्छफरी । मीयते हिंस्यतेभ्योऽन्यतः, मीनः । बहुद्रष्ट्रत्वात् पाटयति भक्ष्यत्वेन पारयते वा पाठीनः । निमिषति परस्पर हिनस्ति इन्तीति वा निमिषः । "नाम्युषघ (धात् ) पृकाज्ञां कः" | तिम्थति जलेनार्दो भवति तिमिः । मत्स्यः, अण्डजः, शकली, विसारः, जलचरः, शल्की ।
घनाघनो घनो मेघो जीमूतोऽभ्रं बलाहकः । पर्जन्यो मिहिरो नभ्राट
१. कार सू० २।२।१९ । २. का. सू. २३/४३ । ३, का सू. पू. सू. २५७ । ४. का.सू.० ४१२।५० इति णिन् प्र. । ५. पा.सू. ३।२।७६ उत्प्रतिभ्यामाजि सर्तेरुपसंख्यानम् इति काशिकावृत्तिः । ६. का सू० २।।२१ । ७.निमेषरहितत्वाम्मीनानाम् । कोषान्तरेषु तेषामनिमिपसंज्ञादर्शनाच्च अत्राप्यनिमिष इत्येव छेदो युक्तः । न तु निमिष इति । तदुक्का-विसारः शकली शल्की शंवरोऽनिमिपस्तिमिः' चि० ४|११५ |८. का० सू. ४२५१ ।।