________________
अनेकार्ध-नाममाला पद्म करिकरप्रान्ते व्योग्नि खगफले गदे।
दाधभाण्डमुखे तीर्थे जले पुष्करमट सु ॥ २६ ॥ पुष्णातीति पुष्करम् ।
शृङ्गारादौ कषायादो घृतादौ च विपे जले ।
निर्यासे पारदे रागे वीर्येऽपि रस इष्यते ॥ ३० ॥ शृङ्गारादौ
"शृङ्गारहास्यकरुणारौद्रवीरभयानकाः ।
बीभत्साऽद्धतशान्ताश्च नव नाटय रसाः स्मृताः ।।" कषायादो-तिका लमधुकटुकषाये । घृतादा--दुग्धदधिवृततैललषोक्षुरसेषु । विमे जले, निर्यासे वृक्षरसविशेषे. पारदे रागे, पो ऽपि रस इष्यते ।
तीर्थ प्रवचने पात्रे लघ्याम्नाये विदांवरे ।
पुण्यारण्ये जलोत्तारे महासत्ये महामुनौ ॥ ३१ ॥ एतेभ्यर्थेषु तीर्थम्' ।
धातुः पञ्चसु लोहेषु शरीरस्य रमादिषु |
पृथिव्यादिचतुल्के च स्वभाव प्रकतापि ॥ ३२ ॥ पञ्चन लोहेषु सुवर्णरजतताम्ररीतिकान्येषु । शरीरस्य रसादिषु रसासष्मांसभेदोऽस्थिमबशुकेषु । पृथिव्यादिचतुष्के च पृथिव्यतै जोनासु (वनस्पति) घु, स्वनाये, वातपित्तश्लेष्मादिषु एतेष्वर्येषु धातुः पठ्यते । दधातीत धातुः ।
प्रधानशृङ्गलाङ्गलभूषापुण्ड्रप्रभावना ।
ध्वजलक्ष्मतुरङ्गेषु ललामो नवसु स्मृतः ।। ३३ ।। एतेष्वर्थेषु *लसामः । ललामन् ।
आकृतावक्षरे रूपे ब्राह्मणादिषु जातिषु ।
माल्यानुलेपने चैव वर्णः षट्सु निगद्यते ॥ ३४ ॥ आकृती, अक्षरे, रूपे, बाहाणादिषु जातिघु. माल्यानुलेपने च वर्णो निगद्यते ।
अकारादावदात्तादो षड़जादी निस्वने स्वरः। एतेष्वनु स्वरः कथ्यते । अकारादौ-अ, आ, इ, ई, उ, ऊ, ऋ, ऋ. ए. ऐ, ओ औ । उदात्तादौ- उच्चैकालमान उदात्तः," । 'नीचैरनुदात्तः" "समनृत्या स्वरितः" । पड्नादी
“निषादर्पभगान्धारषड्जमध्यमधैवताः । __ पञ्चमश्चेत्यमी सप्त तन्त्रिकण्ट्रोत्थिताः स्वराः ।।" निस्वने शन्दे ।
सङ्घताचारसिद्धान्तकालेषु समयः स्मृतः ॥ ३५ ॥ समयते समयः।
१. तरति तीर्यते वाऽनेन तीर्थभ । २. 'लड विलासे" । डलयोरभेदात् ललतीति ललामः । ३. "वर्ण शब्द' । वर्णयति वर्णते वा वर्ण: । घञ कर्मणि, अज्वा कर्तरि । ४. सारस्व० सू० २ । ५. अमः को श७१ ।