________________
५.
१०
१५
२०
त
अमरकीर्तिविरचितभाष्योपंता
अभिषवे । अनेन सर्वेषां साधनिका ज्ञातव्या ।
अजो विधिरजो विष्णुरजः शम्भुरजस्तमः | अजस्त्रैवार्षिको व्रीहिरजो रामपितामहः ।। २२ ॥
न जायते नोत्पद्यते श्रजः ।
शुद्धेऽनुपहते वह्नौ ब्राह्मणे सचिवोत्तमे । आपादेऽध्यात्मसंवित्तौ ब्रह्मचर्ये शुचिर्मतः || २३ ||
मतः कथितः । एतेष्वर्थेषु शुचिशब्दः । शोचति जनो देहलग्नेऽत्र शुचिः । तया च यशस्तिलकचग्गूला-
"न स्त्रीभिः समयस्य सर्वेद्वन्द्वविवर्जितः ।
तं शुचि सर्वदा प्राहुः मारुतं च हुताशनमिति ॥ अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु ।
अर्धशब्दः परयते । अभिधेयश्च शब्दो वाचकः, शब्दमध्ये योऽसावर्थः स वान्यः अभिप्रेयश्च कथ्यते । राः सुवर्णम् । वस्तु - अस्यादिर्लोहितादिर्वा । गैरिकान्वितं ( दिकं च ) बस्तु | प्रयोजनं कार्यम् | निवृत्तिश्च मुक्तिः । तासु । गतौ । श्रते इत्यर्थः ।
भावः पदार्थचेष्टात्मसत्ताभिप्रायजन्मसु ।। २४ ।। एतेष्वर्थेषु भावः पठ्यते । भवतीति भावः । "वा' वलादिनीः ।" प्राय भूमोपमात नृत्यन्ननिवृत्तिषु ।
एतेष्वर्थेषु प्रायः शब्दः |
अन्तः पदार्थ सामीप्यधर्मसत्त्वव्यतीतिषु ।। २५ ।। एतेष्वर्थेषु अन्तः ।
अक्षो द्यूते वरूथाङ्गे नयनादौ बिभीतके ।
द्यूते वरूथाने रथचकावयवे, नयनादौ विभीतके पूतनायाम् अक्षो वर्तते । सारः श्रेष्ठे वले चित्ते कोशे जलचरे स्थिरे ॥ २६ ॥
1
श्रेष्ठे, चले, वित्ते, कोशे, क्रोशे वा पाठः । जलम्बरे, स्थिरे सारो वर्तते । सरस्यनेनेति सारः । " बलमत्स्ययोश्न" इति परसूत्रेण पञ् । स्वमते "अकर्तरि च कारके संज्ञायाम्" इति घञ् । "मारो मज्जस्थिरांशयोः, बले श्रेष्ठे "च" इति हैमी |
वाचि वारि पशौ भूमौ दिशि लोम्नि रवौ दिवि । विशिखे दीधिती दृष्टावेकादशसु गौर्मतः || २७ || पूजां गच्छतीति गौः । गगेर्डोः |
चन्द्रे सूर्ये यमे विष्णौ वासवे दर्दुरे हये । मृगेन्द्रे वानरे वायौ दशस्वपि इरिः स्मृतः ॥ २८ ॥ हरतीति हरिः ।
१. का ० सू० ४१२१५५ । २. प्रकृष्टमयनं प्रायः । "क्ष्ण गतौ" । एरच् । ३. "सर्तेः स्थिरव्याधिमत्स्यते " ३० श० ५१३११७ । ४. का० ० ४१५४ । ५. अने० स० २।४७८ ।