________________
मूलाराधना
आँश्चा
विजयोदया-पृथिषीकायिकः सन् खननदहनविलेखनकुट्टनमंजनलोठमपेषणचूर्णनादिभिर्वाधा परिमाप्तोऽसि ।
अपश्च शरीरत्वेनोपादाय अमरश्मिकरनिकरापातेन, बहनज्यालाकलापकलिततनुतया पर्वतदरीसमुजतदेशेभ्योऽतियेगेन शिलाघनवसुंधरामु पत्तनेन, माम्ललवणक्षारादिरससमवेतद्रव्यसम्मिश्रणेन, धगधगायमानेऽनौ प्रक्षेपणेन, तसतटशिलापातेन, पादकरतलामिघातेन, तरणोधतानां विशालघनोरःस्थलाबपीटनेन, अवलोकमानमहानागतरणम जनइसक्षोभणादिना च महर्ती वेदना अधिगतोऽस्मि ।
तथा समीरणं तनुतया परिगृध द्रुमगुल्मशिलोचयादीनां प्राणभृतां नितांतकठिनकायानां चाभिधातेन समीरणां. तराचमईनेन, ज्वलनस्पर्शनेन च दुःखासिकामनुभूसोऽस्मि ।
तथा परिगृहीतानिशरीरो विध्यापनेन पांसुभमसिकतादिप्रक्षेपणेन, मुशलमात्रजलधारापातेन, दंडकाष्ठादिभित्ताडनेन, लोप्वपापाणादिभिश्चूर्णनेन प्रभंजनेन विपदमाश्रितोऽस्मि ।
फलपशपायकुसुमादिकार्य स्वीकृत्य त्रोटनमक्षपामर्दनपेषणदहनादिभिस्तथा गुल्मलतापादपादिकं तनूकत्य छेदनेन, भेदनेनोरपाटनेन, रोहणेन, दहनेन च क्लेशभाजनतामुपयातोऽस्मि ।
तथा कुंथुपिपीलिकादित्रसो भूत्वा वेगप्रयायिरथचकाक्रमणेन, खरतुरमादिपरुषखुरसंताडनेन, जलप्रवाहमकपंणेन, दावानलेन, दुमपाराणादिपतनन, मनुजचरणावमईनेन, मलबतां भक्षणेन च चिरं लिष्टोऽस्मि ।
तथा खरकरभवलीवादिभाषमापद्य गुरुतरभारारोपणेनारोहणेन, बंधनेन, कर्कशतरकशाडमशलादिताउनेनाद्दारनिरोधनेन, शीतोष्णयातादिसंपतिन, कर्णच्छेदनेन, बहनेन, नासिकाधनेन, विदारणेन, परश्यादिभिर्निशितासिधारा प्रहारेण चिरमुपगुतोऽस्मि ।
तथा भन्न गावं, कृशतया व्याध्याभिमवेन चा पतितं इतस्ततः परावर्त्यमान, करूरतमध्यानटगालसारमेयादि मिर्भक्ष्यमाणं, काकगृध्रकंकादिभिः कवलीक्रियमाण, तरलतरतारकाक्षियुगलं, कखातुमासीत् । ततो यतो गुयतरभारोबहनजातकायतमणसमुद्भवकृमिलेन, काकादिभिश्वानारतमुपमृतोऽस्मि ।
तथा मनुजभचेऽपि करणवैकल्याहारियादसाभ्यव्याध्युपनिपातात् , प्रियालाभादप्रिययोगात्परप्रेन्यकरणादपर पराभपात् , द्रविणार्जनाशया दुष्करकर्मादानमूलषदकर्मोद्योगाच, विचित्रविषदमुपगतोऽस्मि ।
तथैवामरभवेऽपि दूरमपसर लघु प्रयादि, प्रमोः प्रस्थानवेला वर्तते । प्रयाणपटह ताइय, बजं धारय, हताश देचीजन पालय, तिष्ठ स्वामिनोऽभिलाषितेन वाहनरूपेण, कि विस्मृतोऽस्यनत्पपुण्यपण्यशनमस्रस्य दासेरता यती तिष्ठसि । पुरो न धावसीति देवमहत्तरपरुषतरभारतीशलाकानां ताउनेन शतमुखान्तःपुरादभ्रविभ्रमविलोकनोद्भूताभिलाषदहनजनितसंतापेन षण्मासाचास्थितेरायुः परिशानेन च महदुदपादि दुखं । एवं नरकभवेपि इन्थमनंतकालमनुभूतस्य मम को विषादो, दुःखोपनिपाते इति न च विषण्णं त्यजति दुःखानि, स्वकारणायत्तसंनिधानानि तानीति सत्वभावना ॥ यद्यशुभ. शरीरदर्शनानीतिः सापि नो युक्ता। तानि शरीराणि असन्मया गृहीतानि दृष्टानि च। का तत्र परिचितेभ्यो भीतिरिति चित्तस्थिरीक्रिया सत्यभावना।
MC