________________
लाराधना
४
नन्वाराधनास्वरूपावगमनं पुरुषार्थः पुरुषार्थो हि प्रयोजनं, पुरुषार्थश्च सुखं दुःख निवृत्तिर्वा न चासयोरम्यतरताऽस्य । अयमस्याभिप्रायः, यो येनार्थनार्थी सतरप्राप्तये तदीयमुपायमधिगमुपादेयं वा यतते । येन प्रयुक्तः क्रियायां प्रवर्तते तत्प्र योजन, मागेन प्रयुज्यते श्रवणादिक्रियायामुपयोगिवस्तुपरिज्ञानं प्रयोजनं भवतु, भाराधना तु कथमुपयोगिनी सकलसुख रूप केवलज्ञानपर माग्यायाधतां जनयतीत्युपयोगिनी । तथा चोक्तं चतुर्विधाराधनाफलं प्राप्तानिति । ततोऽयमर्थः, अनन्त शानादिफलनिमिताराधनाऽवयोधनार्थमिदं शास्त्रमारभ्यत इति साध्यमाराधनास्वरूपक्षानं साधनमिदं शास्त्रमिति साध्य साधनरूपसंबन्धोऽपि शास्त्रप्रयोजनयोरत एव वाक्यालभ्यते । अभिधेयभूतास्तु चतस्त्र आराधनाः । प्राह्यमिदं शास्त्र प्रयोजनादित्रय समन्यतत्वात् व्याकरणादिवदिति । एवमनया मल प्रयोजनादित्र्य व सूचितं । 'कमसो क्रमेण पूर्वशास्त्रनिगदितेन, पतेन स्यमनीपिकाचर्चितमिति । वचनानुसारितया प्रमाणमिदमाख्यातं भवति । 'पुच्चसुताणं' इति वाक्यशेषादित्यं लभ्यते ॥
अथ श्रीमदाशाचरकृतं मूलाराधनादर्पणम् । २ । नव्याहतः समुग्धानां विवृणोम्यहम् ॥ श्री मूलारावजागृपदान्वाशावरोऽर्थः ।। १ ।।
तत्रादी ऐन्द्रयुगीनश्रमणोपयुज्यमानप्रवचनविष्यामृत माधुर्यश्तत्र भवान् शिवकोट्याचार्यवर्यः शिष्टाचारं प्रमातुं मंगलपुरःसरमुपदेश्यं वस्तु निर्दिशन् श्रोतृप्रवृत्संगतया च प्रयोजनादित्रयमवबोधयन् ' सिद्धे ' इत्यादि सूत्र चतुर्विंशतिगाथामयपीठिकाप्रथमावयवभूतमासूत्रयामास ॥
एतदर्थः करपते सभा - बोच्छे वक्ष्यामि । प्रतिपादयिध्याम्यहं ग्रंथकारः । को आराधनां १ आराध्यते सेव्यन्ते स्वार्थप्रसाधकाने क्रियते सम्यग्दर्शनादीनि मोक्ष सुखार्थभिरनयेत्याराधना आराध्यनिष्ठ आराधकव्यापारः । उपजातसम्यग्दर्शनादिपरिणामस्यात्मनस्तद्द्वतातिशयवृत्तिरित्यर्थः ॥ तथा चोक्तम्
रत्नन्नयमाराध्यं भव्यस्वाराधको विशुद्धात्मा ॥
आराधना सुपायस्तत्फलमभ्युदयमोक्षौ स्तः ॥
aat | केन ? कमलो क्रमशः पुण्बसुत्ताणमित्यध्याहारात्पूर्व सूत्रमेणेत्यर्थः ॥ एतेन गुरुपूर्वक्रमायातामाराधनामहं वक्ष्यामि न स्वमनाविकार्चितामित्युक्तं स्यात् । किं कृत्वा ? बंदिता वंदित्या अणस्य स्तुत्वा वा । कान् ? सिद्धे
अध्याय
१
४