SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ पंचमोऽङ्कः। शैलेंद्रप्रतिपंथिबाहुशिखरे पंथानमस्मद्गिरामुलंध्यैव बहिःस्थिते बलवतामार्ये च धुर्ये स्थिते। प्राप्ताः कर्तुमधिज्यमद्य तदमी चापं वराका नृपाः के वा वारणकुंभपीठदलने सिंहावृतेऽन्ये मृगाः॥१५॥ रामः--(पुरो विलोक्य ) कथं रथ्यांतरेषु निरुच्छासो जनसंमदः । नेच्छा धौरितमध्यसादिनियतैर्वानायुकैर्लभ्यते नीयंते विशिखांतरेषु करिणस्तिर्यमुखा यन्तृभिः। सूतैस्संहृतरश्मिभिर्नियमिता निस्पंदनाः स्यंदनाः शस्त्राण्यूर्ध्वमुखानि विभ्रति भटा गंतुं कृतखिताः॥१६॥ लक्ष्मणः--(पुरो निर्दिश्य ) अयमसौ सभाभूमिः । रामः-प्रविशाग्रतः । लक्ष्मणः-यदाज्ञापयति आर्यः । (उभौ प्रविशतः) लक्ष्मणः--( निर्वर्ण्य )। उद्धृतां पटवासचूर्णसरणी निष्ठयूतरत्नप्रभां व्यत्यासाहितशकचापविभवामाकृष्टभंगावलीम् । बिभ्रत्संप्रति लक्ष्यते स्वयमपि व्यक्तं सभामंडपः संरंभव्यसनीव किंचन धनुयारोपणाडंबरे ॥ १७ ॥ ( हस्तेन निर्दिश्य ) आर्य परिकल्पितपूर्वोऽयं यथोचितमंचः यावदलंक्रियताम् । रामः-यथाह वत्सः । ( उपविश्य ) वत्स उपविश्यताम् । लक्ष्मणः--यथाज्ञापत्यार्यः । ( उपविशति ) रामः--(आत्मगतं)। वपुर्दूरे वाचामिदमयमनोदरमणिर्न मूल्यं त्रैलोक्यं क च मम मुधोत्कंठितमिति ।
SR No.090281
Book TitleMaithili Kalyanam Natakam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1917
Total Pages110
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Mythology
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy