________________
८६
मैथिलीकल्याणे
मयि प्राक् प्रेयस्याः प्रणयघटनोपायकृपणे कृपालुः प्राप्तोसौ सपदि धनुरारोपणपणः ॥ १८ ॥ अतश्च पाणौ कृतामेव मन्ये विदेहराजात्मजां । येन मे
शिथिला मिथिलाधिपात्मजायां प्रणयालाभजडा मनोरथाः प्राक् । अधुना तु विशृंखलं प्रवृत्ताश्युतयंत्रा घटिता रथा यथैव ॥ १९ ॥ आश्लेष्यैव भुजद्वयेन दयितामुत्संगरंगं बलादारोप्यैव समर्प्य तत्करतलं दत्वैव शैत्यं दृशीः । आघ्रायैव कुचात्कुचं गतघणं पीत्वैव विबाधरं संपूर्यैव मनोरथांश्च शतशः सोच्छ्वासमस्मन्मनः ॥२०॥ (प्रकाशं ) वत्स लक्ष्मण किमत्र धनुर्गुणारोपणाय राजन्यकैः प्रतिपाल्यते। लक्ष्मणः-आर्य प्रेक्षकागमनं । रामः-कोसौ प्रेक्षकः । लक्ष्मणः-आर्य मिथिलेश्वरः ।
(प्रविश्य पटाक्षेपेण ) विदूषकः-जैदु पिअवअस्सो । रामः-कुतः खलु भवानियती वेलां चिरायितः । विदूषकः-किं अवरं संझोवासणप्पसंगेण । रामः-( सस्मितं ) जाने तादृशी हि भवतो नियामानुष्ठानचुचुंता । विदूषकः-जईं जाणासि कुदो मं पुच्छसि ।
रामः-तिष्ठत्वेतत् । कुतो भवान् कुपितभुजंगोच्छ्रासघर्घरानायामिनस्तरंगितोपवीतसूत्रान्निर्मुचति श्रमशंसिनो निश्वासान् ।
१ जयतु प्रियवयस्यः । २किमपरं संध्योपासनप्रसंगेन । ३ यदि जानासि कुतः पच्छसि ।