________________
पंचमोऽङ्कः।
८७
विदूषकः-वेअस्स अहं खु एत्थ एव्व आआच्छंतं महाराअजणअं दक्खिअ असंवादेण पविसिदुं तरिअं आहिडिओ।
रामः-किमागच्छति विदेहेश्वरः । विदूषकः-ओम । लक्ष्मणः-(पुरो निर्दिश्य ) आर्य एष विदेहेश्वरः । योसौ
उत्सारणासंभ्रमसत्त्वरेण परिष्कृतः कचुकिनां गणेन । आयाति गंधद्विपखेलगामी
सभां हरिः शैलगुहां यथैव ॥ २१ ॥ रामः-( दृष्ट्वा आत्मगतं )। हिमवानिव गंगाया लक्षया इव पयोनिधिः। स एष खलु सीतायाः जनको जनको नृपः ॥ २२॥
. (ततः प्रविशति जनकः कंचुकी च ) कंचुकी--इत इतो महाराजः ।
(उभौ परिक्रामतः) दूरादम्बरचारिभिः परिहृतं यद्वीर्यशौण्डैर्धनुमर्त्यः कर्तुमधिज्यमद्य तदिदं को वा क्षमः स्यादिति । दिष्टया ज्यामधिरोपयेद्धनुषि यस्तस्मै महावाहवे
दातव्या दुहितेत्यनेन च मनः क्लिष्टं च हृष्टं च नः ॥२३॥ इयं च मे समर्थना ।
धन्विप्रवीरानवधीर्य सर्वानानम्रभावं च न जातु याति। . क्वेदं धनुस्तक्व च वज्रकांडं
शाङ्ग पिनाकं च धनुष्कथा नु ॥२४॥ १ वयस्याहं खलु अत्रैवागच्छंतं महाराजजनकं दृष्ट्वा असंवादेन प्रवेशितुं त्वरित. माहिंडितः । १ ओम् ।