________________
८८
मैथिलीकल्याणे
कंचुकी-एतद्भद्रासनं । यावदलंकरोतु महाराजः ।
जनकः-( उपविश्य ) आर्य गुरुदत्त का वात्र संप्रति निर्वत्यश्चैष चापाधिज्यकरणाय प्रतिपालयति क्ष्माभुजो भुजसारद्रविणानिदं धनुः । कंचुकी-अधुना प्रतिपालयंत्यमी नृपसिंहा अपि भर्तृदारिकां । जनकः-आर्य गुरुदत्त तेन हि समानीयतामिहैव वत्सा सीता । कंचुकी-यथाज्ञापयति महाराजः । (निष्क्रांतः)। विदूषकः-( जनांतिकं ) वंअस्स इदो एब्ब आअमिस्सिदि तत्तहोदी दाणिं सफलो अम्हाणं पअंतो जेण लोउत्तरपरक्कम्मविहवस्स अत्तहोदो ण किंपि तेलोक्के दुक्करं णाम किं पुण एत्तिअमेत्तं चावाधिज्जीकरणं कम्मं ।
( ततः प्रविशति सीता विनीता कंचुकी च) कंचुकी-इत इतो भर्तृदारिका ।
सीता-(परिकामंती जनांतिकं ) हमें विणीदे किं सच्चं अज्जउत्तो तहिं आअच्छइ ।
विनीता-( जनांतिकं ) सो दाव अण्णूणसहअतारुण्णविक्कमो अग्गदो पविसई अण्णो पुण आअच्छेदि वा ण वा ।
सीता-हंजे अवि णाम अह्माणं मणोरहो सफलो भवे । विनीता-भट्टिदारिए किं तुवं साहारणमणुस्समज्झीए लहूकरेसि भट्टिणंपि रामं । सो खु सव्वहा माणुसरूपमेत्तधारि देवोत्ति समत्थेहि ता ण खु तस्स एपि चावजीवारोपणं विक्कमसिलाहाए पज्जत्ति ।
१ वयस्य इत एवागमिष्यति तत्रभवतीदानी खलु सफलोस्माकं प्रयत्नः येन लोकोत्तरपराक्रमविभवस्यात्रभवतः न किमपि त्रैलोक्ये दुष्करं नाम किं पुनः एतावन्मात्रं चापाधिज्यकरणं कर्म । २ हजे विनीते किं सत्यमार्यपुत्रस्तस्मिन्नागच्छति । ३ स तावदन्यूनसहजतारुण्यविक्रमोऽग्रतः प्रविशति अन्यः पुनरागच्छति वा न वा ?। ४ हजे अपि नामास्माकं मनोरथः सफलो भवेत् । ५ भर्तृदारिके किं त्वं साधा. रणमनुष्यमध्ये लघूकरोषि भरिमपि रामं । स खलु सर्वथा मनुष्यरूपमात्रधारी देव इति समर्थयस्व तस्मान्न खलु तस्यैतदपि चापजीवारोपणं विक्रमश्लाघायाः पर्याप्तिः।