________________
पंचमोऽङ्कः।
विदूषकः- ( दृष्ट्वा जनांतिकं ) वस्स एसा खु अत्तहोदी। रामः-( दृष्ट्वा आत्मगतं.)।
अस्या मदनधनुर्ध्या गुंजितमिव हंसखेलगमनायाः। मंजरिसिंजित्तमिदं गाढोत्कंठं मनः कुरुते ॥ २५ ॥ इत्थं मनात्प्रेक्ष्य ।
अनन्यतुल्योज्ज्वलरूपयानया कृता तुलाकोटिरसोत्कृतेः पदम् । इति स्फुटं घोषयितुं तु बुध्यते निजे तुलाकोटिरसौ पदद्वये ॥ २६ ॥ विनीता--( रामं दृष्ट्वा जनान्तिकं ) भैट्टिदारिए एसो खु भट्टा रामो । सीता--(सहर्ष आत्मनि) कह आअदो एव्व । कुंचुकी-एष महाराजः यावदुपसर्पतु भर्तृदारिका । सीता-(उपसर्पति) जनकः--वत्से इहोपविश्यतां ।
(सीता विनीता च यथोचितमुपविशतः ) जनक-आर्य गुरुदत्त चापाधिज्यकरणाय भूमिपालमुख्यानावेदय । कंचुकी-यथाज्ञापयति महाराजः ( हस्तमुत्क्षिप्य)
समायाता यूयं क्षितिपतिसुता विक्रमधना धनुर्जाग्रच्चेच्छेन्नृपवरभुजैर्जित्यविधये। स्थितः प्रेक्षापेक्षः परिषदि महाराजजनको
बलकय्या प्राप्ता स्वयमपि विदेहेश्वरसुता ॥ २७॥ . तदिदानीं।
१ वयस्य एषा खलु अत्रभवती । २ भर्तृदारिके एष खलु भर्ता रामः । ३ कथमागत एव ।