________________
मैथिलीकल्याणे
घ्राणं तद्वदनारविंदसरसा मोदाय चोत्कंठते
पंचाक्षव्यसनाय पंच हि शराःपंचेषुणा स्वीकृताः ॥११॥ (प्रकाशं ) वत्स लक्ष्मण । लक्ष्मणः-आज्ञापयत्वार्यः । रामः
अनयरूपामपि यस्सतां नये धनुर्गुणारोपणमात्रशुल्कताम् । रजतृणेन क्षितिभृत्सु कौसुभं
विमुह्य विक्रेतुमना ध्रुवे ध्रुवम् ॥ १२ ॥ लक्ष्मणः-आर्य त्वां प्रत्येतदेवं प्रतिभाति । कुतः ।
अवलुप्तभुजंगलोकनाथप्रियकांतास्तनपत्रभंगकांतेः । गरुडस्य गरोद्गराद्रीयान्
वद वल्मीकभवः कियान् फणिः स्यात् ॥ १३॥ रामः-वत्स कीदृशं वा तद्धनुः । लक्ष्मणः-आर्य तत्खलु।
नभश्चरभुजावलेपहलुंठनातस्करं। बलस्य तुलने तुला तुलितभूभृतो भूभृतः । निशम्य तदिदं धनुस्सुवहवो निवृत्ता नृपा
विशंति मदकर्कशाः कतिपये सभाभूमिकाम् ॥१४॥ रामः--वत्स आदेशय मार्ग सभाभूमिकायाः । लक्ष्मणः-आर्य इत इतः।
(उभौ परिक्रामतः) लक्ष्मणः-(पुरो विलोक्य सहासं) अहो मौग्ध्यममीषां क्षत्रबंधूनाम् । कुतः।