________________
८२
मैथिलीकल्याणे
संघं ब्रूहि । यथा अद्य खलु वत्सायाः सीतायाः परिणयनसमयः अद्यैव च राज्ञां धनुर्गुणारोपणपरीक्षणं । तत्सज्जीक्रियतां सभाभूमिः प्रवर्त्यतां च राज्ञां सभाभूमिसमासादनाय समुद्घोषणा, नियोज्यतां च धनुरानयनाय किंकराः । इत्थं चादिश्यता भवतापि पुनस्तत्रैव निवर्त्य वस्तुनि व्यापृतात्मना भवितव्यमिति । अनुष्ठितश्च मया स्वामिनो निदेशः । अद्य हि यथाहं संपादितमंगलकर्मतया गृहीतप्रतिकर्मेव कार्मुककर्मठकृत्यादेशभूमिः सभाभूमिः । तथाहि ।
एकांतबलद्रविणं प्रसाधिता सुलभयैव नोत्सेकम् ।
प्रतिपालयतीदानीं भूपालसभं सभाभूमिः॥४॥ आनीतं च नभश्चरारक्षितैस्ताहव्यं धनुः । अद्य हि ।
मध्यप्रतिष्ठापितदीर्घचापदंडा सभाभूमिरसौ बिभर्ति । अंतः समुज्जूंभितशेषभोग-- भीमस्य शोभां भुजगालयस्य ॥५॥
(नेपथ्ये) भो भो प्रौढबलावलेपगुरुताकंडूलवाह्वगला
राजानो नवयौवनोग्रमदिरास्वादप्ररोहन्मदाः। वज्रावर्तमिदं धनुर्विघटयद्वनं बलिक्ष्माभृतो
युष्मानाह्वयते बलस्य निकषयावापरीक्षाक्षमः ॥६॥ कंचुकी-( कर्ण दत्वा ) इयमिदानीं राजपुत्रान् समाजयितुं नगराध्यक्ष्यैरुद्धोषणा क्रियते । ( परितोऽवलोक्य )। केचिद्बद्धमनोरथा रथवरानध्यासिता भूभृतः
केचिद्दिक्करिहस्तकर्कशकराः सेवाकरीन्द्रस्थिताः । आरूढाश्चतुरंगाजत्वरबलाः केचित्तुरंगोत्तमा-- नासीदति दुरंतदुर्धममदा भूयस्सभाभूमिकाम् ॥७॥