SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ पंचमोऽङ्कः। पंचमोऽङ्कः ॥ ५॥ (ततः प्रविशति कंचुकी) कंचुकी--(परिक्रम्य आत्मानं निर्वर्ण्य च ) अहो वार्धकं नाम गुणाय संपद्यते । अहं हि वैषम्यदोषमवनौ परिहृत्य यत्नाद्गच्छन् क्रमादविषमे पथि सावधानः । दंडेन चोचितनिदेशनिवेशितेन बिभ्रत् स्थितिं धरणिपालधुरं दधामि ॥१॥ अथवा का वा तत्र गुणगृह्यता श्लाघ्या । तथाहि । रचयति जरा वाचं कंठं ग्रहादिव गद्गदां स्खलति चरणद्वंद्वं मूर्धाप्यहस्खलतः खलु । गलयति च वयस्तच्चांगं मे विधुन्वदिव स्वयं चलति पलितं पाप्मा प्रागर्जितः फलितच्छलात् ॥२॥ ( सस्मितं ) इयं पुनरपहता स्म दौर्जित्यसर्वस्वा जरत्कंचुकमात्रधारणं च न क्षमते तरुणजनसंमोहिनी जरापण्यांगना । (निर्वर्ण्य ) आगुल्फलंवाकुलवारवाणो विश्लिष्टनिर्मोक इवास्मि भोगी। आश्लिष्टसर्वांग इवान्वहं हि सुविग्रहिण्या च जरागृहिण्या ॥३॥ ( विचिंत्य ) आस्तां तावदियमसंस्तुतकथा आज्ञापितोस्मि महाराजजनकेन । यथा-आर्य गुरुदत्त यत्तन्नभश्चरपरिपालितं दिव्यधनुर्यो हि नाम तदधिज्यं कुर्यादधिबलस्ततस्तेनैव वीर्यशुल्केन तस्मै वत्सा सीता प्रदातव्या । आहूताश्च तदर्थमेव सर्वेपि राजपुत्राः । तदिदानी मद्वचनादमात्य.
SR No.090281
Book TitleMaithili Kalyanam Natakam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1917
Total Pages110
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Mythology
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy