________________
मैथिलीकल्याणे
लवंतो चओरवारणाणं दिअरी कसणवण्णां जोहणं मुंचंतो पश्चिमजलणिहिबेलाविहाररसिओ विअ वोलंविज्जइ सीअंसु ।
रामः -- कथं विभातप्राया विभावरी । संप्रति हि ।
८०
विभातविश्लेषितपत्रबंधान मंदं विभिदन्नरविंदकोशान् । आवाति वायुर्दिवसोत्सुकाना -- माश्वासनः कोककुटुंबिनीनाम् ॥ १६ ॥
विदूषकः -- अस्स जाव वअंपि गच्छेम । रामः - - यथा भवानाह ( परिक्रामन् )
भवत भवत सर्वे निर्वृताश्चक्रवाका दिवसकरकरायैस्ता निरस्ता तमिस्राः । भजत सह बधूभिः स्वैरसंभोगयोग्यान् विकचदलकरंडानाशु तान् पद्मखंडान् ॥ १७ ॥ विदूषकः - ईदो पिअवअस्सो ।
( निष्कांती )
इति श्रीगोविंदस्वामिनः सूनुना हस्तिमल्लेन विरचिते मैथिलीकल्याणनाटके चतुर्थोऽङ्कः ॥ ४ ॥
१ वयस्य यावद्वयमपि गच्छामः । २ इतः प्रियवयस्यः ।