________________
मैथिलीकल्याणे
सीता--हजे किं करेमि सव्वदोवलग्गं मअणसरासरो सरधि विअ खु मे आदा कुसुमाउहस्स। विनीता--को' अण्णो एसो आदा सरहि एव्व ( इत्योक्ते) सीता-( सहर्ष ) कहि कहिं अज्जउत्तो । विनीता--भंट्टदारिए एवं खु अहं वत्तुकामो को अण्णो एसो आदा सरहि एव्व दे आउंखणिमग्गपुप्फाउहवाणसहस्सोत्ति।
सीता--हंत कुदो मे तारिसा भाअदेआ जेण दाणिं अज्जउत्तो सरं आअदुअ अच्छीणं मे ऊसवं देइ ।
विनीता-भट्टिदारिए मा खु तह संतप्पिअ अवस्सं ख पिअसहि कलावई ण दे अण्णहा भणाइ त्ता एत्थ पविट्ठ एव जाणिहि भट्टिणिआ वइदो मुहुत्त पडिवालेम।
(ततः प्रविशति रामो विदूषकश्च ) रामः
तप्तव्योमा तपनकिरणैः वासरस्तु प्रकामं संतापानां भवतु विषयो दुःसहानाममीषाम् । सः स्यात्तस्यां निशि च शशिनो ज्योत्स्नया शीतलायां चित्रं जातो द्विगुणितगुणो हंत संताप एषः ॥१॥
१हजे किं करोमि सर्वतोवलनं मदनशरासारः शरधिरिव खलु मे आत्मा कुसुमायुधस्य । २ कोऽन्यः एष आत्मा शरधिरेव । ३ कस्मिन् कस्मिन् आर्यपुत्रः । ४ भर्तृदारिके एवं खल्वहं वक्तुकामा कोन्य एष आत्मा शरधिरेव ते आपुखनिममपुष्पायुधबाणसहस्र इति । ५ हंत कुतो मे तादशानि भागधेयानि येनेदानीमार्यपुत्रः स्वयमागत्य अक्ष्णोर्मे उत्सवं ददाति । ६ भर्तृदारिके मा खलु तथा संतप्य अवश्यं खलु प्रियसखिकलावती न तेऽन्यथा भणति तस्मादत्र प्रविष्ट एव जानीहि महिन्या वदितो मुहूर्त प्रतिपालयामः ।