________________
मैथिलीकल्याणे
विनीता-( स्पृष्ट्वा ) कहं एसो गंधणीहारो से दुब्भेदो परिणदो जाव इमेहिं कप्पूरचण्णेहिं पडीकरेमि । ( तथा करोति )।
सीता-हजे चुण्णेदि मे हिअ कप्पूरचण्णं । विनीता-तण हि इमिणा मोत्तापलक्खोदसल्लित्थेण केलिपत्तेण बीजामि (तथा करोति)
सीता-हला एअं मोत्तिअखोदधवलिअधारं केलिपत्तं असिपत्तं विअ अणंगस्स उल्लसंतं पेक्खंति भाअदि मे आदा ता जाव तं अण्णदो विक्खिव अहव मा खु तं मुंच एसो खु जंताणवडंतचंद्रअंतणीसंदमंदहुंकारमुच्छिदो मं दाणिं मंदाणिलहदवो जाव तण कअलीपत्तेण एअं मलआणिलं पडिवीजंती अण्णदो ओसरेहि ।
विनीता-कहें एस णिवारिज्जइ सदागई जाव इमिणा चंदअंतणिस्संदपलाविदेण कल्लहारदलेण तुवं वीजमि । ( तथा करोति )
सीता-हमें चंदअंतणिस्संदावदेसेण मिस्संदहि मे हिअरं जाव कमलिणीपत्ताइ समप्पेंति पडिअवच्छादि ।
१ कथमेष गंधनीहारः अस्या दुर्भेदः परिणतः यावदभिः कर्पूरच गैः प्रतिकरोमि । २ हजे चूर्णयति मे हृदयं कर्पूरचणे । ३ तेन हि अनेन मुक्ताफलक्षोदसलिप्तेन कदलीपत्रेण वीजयामि । ४ हला मौक्तिकक्षोदधवलितधारं कदलिपत्रं असिपत्रपत्रमिवानंगस्योल्लसत् पश्यंत्याः बिभेत्यात्मा तस्माद्यावत्तदन्यतो विक्षिप । अथवा मा खलु तन्मुंच एष खलु यंत्रनिपतच्चंद्रकांतानिष्यंदमंदहुंकारमूछितो मूर्छयति मामिदानी मंदानिलहतकः यावत्तेन कदलीपत्रेणैतं मलयानिलं प्रतिवीजंती अन्यतोऽपसारय । ५ कथमेष निवार्यते सदागतिः यावदनेन चंद्रकांतनिष्यंदप्रक्षालिनेन कल्हारदलेन त्वां वीजयामि । ६ हंजे चंद्रकांतनिष्यंदापदेशेन निष्यंदते मे हृदयं यावत्कमलिनीपत्राणि समर्पयती पर्यवस्थापय ।