SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ मैथिलीकल्या विदूषकः-( सहर्ष ) किंतुमं तस्सा सहि । पंढः-ओम। विदूषकः-( सहर्ष ) तेण हि विरमेमि इमादो परिब्भमादो । पंढः-किंति खु पुव्वं परिब्भमेसि । विदूषकः-तत्तहोदी सिसिरोवआरोवआरणाणि आणेदुं परिब्भमामि तुमं पुण दाणिं तस्स अणिरिसं सिसिरोवआरोवअरणं लद्दा ता एहि दाणिं सिग्छ वअस्सस्स पासं येव्व गमिस्सम्म । पंढः-तथा। (परिक्रामतः ) (ततः प्रविशति रामः) रामः-( सोत्कंठं ) सा खलु । श्लाघा विभ्रमलक्ष्या शृंगाररसाधिदेवता साक्षात् । संचारिणी पदाभ्यां मूर्तिमती कैशिकी वृत्तिः॥२०॥ अहो दुर्वारा मानसी प्रवृत्तिः । अद्य हि । स्पृशति मयि सा रुष्टालीकव्यलीककलंकिते किमपि रुदति यन्मोहान्ते भयोच्छ्रितवेपथुः। कमलकलिकाव्रातस्मेरा व्यलोकत सस्पहं स्फुरति हृदि तत्किंचिद् व्रीडांचितं किलकिंचित् ॥ २१ ॥ किंच सुमहदिह वयं विस्मेराः यदुत विषयनुषंगकलुषितं जनं परिवदंतो वयमेव कामुकजनधैर्यामिषघस्मरेण स्मरण खलीकृता स्मः । अथवा । १ किं त्वं तस्याः सखी । २ ओम् । ३ तेन हि विरम्यते अस्मात् परिभ्रमात् । ४ किमिति खलु पूर्व परिभ्रमसि । ५ तत्रभवती शिशिरोपचारोपकरणान्यानेतुं परिभ्रमामि त्वं पुनरिदानीं तस्यानीदृशं शिशिरोपचारोपकरणं लब्ध्वा स्मादेहि इदानों शीघ्रं वयस्यस्य पार्श्वमेव गमिष्यावः ।
SR No.090281
Book TitleMaithili Kalyanam Natakam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1917
Total Pages110
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Mythology
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy