________________
३४
मैथिलीकल्याणे
शीतांशुवदनां सीतां स्पृष्ट्वैव स्पर्शशीतलाम् ।
अपास्ततापमंगं मे शीतीभावमवाप्स्यति ॥२८॥ विनीता-(कर्ण दत्वा) भट्टिदारिए इदो जणालावो विअ सुणिअदि। सीता-सहि इमिणा माहविगुम्मेणंतरिदो दक्खम्म । विनीता-( तथा कृत्वा दृष्ट्वा च ) भेट्टदारिए दिटिआ वड्डसि एसो दे हिअअवल्लहो। __ सीता-(दृष्ट्वा सहर्ष सानुरागं चात्मगतं ) हिअअ पडिअवटावइ अप्पाणं किअत्थं खु दाणिं दे जम्मं ( साकारा संवरणं) किं णु दाणिं एदं दक्खंतिए किंपि वेपइ मे हिअ ऊरुजुअलं च फुरइ वामच्छि अहरो अ सिथिली होइ णीविगंथि धीरं च किल्लम्मइ मणो सरीरं च ।
विनीता-जइ एव्वं भट्टदारिए इमस्स वि जणस्स विवित्तदेसे कोवि सेरालाओ वट्टइ तं सुणिस्सह्म ।
सीता--जहँ पिअसहीए रोआदि। विनीता--(विलोक्य) भट्टदारिए पेक्ख परिदो सिसिरोवआरपरिअरं। सीता-किं तेंण मे। विनीता-भट्टेदारिए तुए उक्कटाए संदाविओ खु सो । सीता--कैहं अज्झवस्सिसि ।
१ भर्तृदारिके इतो जनालाप इव श्रूयते । २ सखि अमुना माधवीगुल्मेनांतरित पश्यावः । ३ भर्तृदारिके दिष्टया वर्धसे एष ते हृदयवल्लभः । ४ हृदय पर्यवस्थापय आत्मानं कृतार्थ खल्विदानी ते जन्म । ५ किं नु इदानीमेतं पश्यंत्याः किमपि वेपते मे हृदयमूरुयुगलं च स्फुरति वामाक्षि अधरश्च, शिथिली भवति नीविप्रथिः धैर्य च, क्लाम्यति मनः शरीरं च, । ६ यद्येवं भर्तृदारिके अस्यापि जनस्य विविक्ते देशे कोपि स्वैरालापो वर्तते तं श्रोष्यावः । ७ यथा प्रियसख्यै रोचते। ८ भर्तृदारिके पश्य परितः शिशिरोपचारपरिकरं । ९ किं तेन मे । १० भर्तृदारिके त्वय्युत्कंठया संतापितः खलु सः । ११ कथमध्यवस्यास ।