________________
मैथिलीकल्याणे
मलयपवननुन्नं पल्लवं वेपमानं वहति हृदयमंतर्मन्मथार्थो युवेव । विसृजति मधुबिंदुच्छद्मना वाष्पविंदून
पुलकित इव मुग्धैः कोरकैरेष चूतः ॥१०॥ अपि च ।
कुसुमचषकोदरगतं सरसं रागोपदंशमधु पीत्वा ।
मंथरगमना मधुरं गायति मदोद्धताः मधुपाः॥११॥ विदूषकः-ऐदं खु विआसुम्मुहकुसुममंजरिभरभरिअसहआरमहीरुहसिहरपब्भारं महुरसलालसपरिब्भमंत सुलहमहुअरं आजुहागारं विअ लक्खिज्जइ महुरवसिलीमुहरसिअस्स कुसुमाउहस्स । रामः-वयस्य सम्यगुपलक्षितं । इह हि ।
उत्कंठयंति मधुपान् कलिकास्तरूणामुन्निद्रयंति मुकुलानि बलाद्विरेफाः। उत्तंसयति पवनाः सुमनःपरागा
नुद्दीपयंति मदनं मरुतां विहाराः ॥ १२ ॥ (विचिंत्य ) इदमिह संप्रधार्य येनास्य मनोभवस्य ।
कोदंडं किल कोमला सुमनसस्ता एव चित्रं शरास्तन्न ब्रूम शिलीमुखैरथ कथं जीवा गुणः कल्पितः । तद्विस्मृत्य सहामहे कथमिदं प्राज्ञैरनुज्ञायतां
यदुर्लक्ष्यममुष्य वक्ति पृथिवीलक्ष्यं मनः कामिनाम्॥१३॥ विदूषकः-अस्स जस्स दे मअण एव्व ईरिसिए अवत्थाए कारणं सो तुम चेअ तं मअणं उबहसंतो दाणि उवहसणिज्जो ।
१ एतत्खलु विकाशोन्मुखमंजरिभरभरितसहकारमहीरुहशिखरप्राग्भारं मधुरसलालसपरिभ्रमत्सुलभमधुकरमायुधागारमिव लक्ष्यते मधुरवाशिलीमुखरसिकस्य कुसु. मायुधस्य । २ वयस्य यस्य ते मदन एवेदृशाया अवस्थायाः कारणं स त्वमेव तं मदनमुपहसनिदानीमुपहसनीयः ।