________________
पंचमोऽङ्कः ।
९३
रामः
( श्रुत्वा सकोपं ) ।
श्रुतं श्रवणयोः प्रियं किमपरं मया स्थीयते प्रिया वसतु वक्षसि स्वयमसौ सीता मम । मदस्त्रहलकर्षणोपजनितां च सीताममी नृपास्त्वरितमीप्सितां युधि वहंतु वक्षःस्थलैः ॥ ३९ ॥
इति संरभते ।
लक्ष्मणः - अलमलं संरंभेण
नमयति धनुस्तच्चैवार्ये भयक्षुभितं जगनमयास यदि भ्रचापं त्वं रुषा विवशीकृतः ।
न कुलगिरयो न त्रैलोक्यं न चाम्बुधयः क्षणात्सकुलविधुतः कोपस्तस्मात्प्रसीद विधूयताम् ॥ ४० ॥ किं चान्यत् । न चैते क्षुद्राः क्षत्रिया शदो भवतः कोपस्य पर्याप्ताः ।
पश्य ।
कक्षाकक्षं विविभुं शशशिशुमशनैरप्लुतं विप्लुताक्षं किं दृष्ट्वा त हंतुं कलुषयति मुधा मानसं राजसिंहः । यस्य क्रोधांधगंधद्विरदरदनद्वंद्वकंदांतराल -
स्थाली निर्मुक्तमुक्ताफलशकलशिलादंतुरा दंतपंक्तिः ॥ ४१ ॥ जनकः - ( सस्मितं ) ।
यैः स्पृष्टुं च न च क्षमे नृपसखैश्चापं निवृत्तं तदा जीवारोपणचापला नृपतिभिर्वैलक्ष्यलक्षीकृतैः ।
ते यूयं क इवाधुना युधि परं रामेण बद्धः क्रुधा युष्मास्वेव मिषत्सु येन च धनुर्भुग्नं च भग्नं च तत् ॥ ४२ ॥ किंच । उपालंभभूमिश्च भवतामयमारंभः । कुतः । पर्जन्यं प्रति गर्जतां मदनदस्रोतोमुचां दंतिनां संघर्षेण मुधैव यत्किल मुहुः प्रागर्जितं गर्जितम् ।