________________
९२
मैथिलीकल्याणे
सीता-अम्हो लोउत्तरकोसलो उत्तरकोसलेसरो ।
लक्ष्मणः-अहो श्रुतिपथोन्मादी निर्घातनिर्घोषगंभीरो विह्वलितहरिद्गह्वरो धनुभंगघोषः ।
दिव्यानां भयपूर्णमानशिरसां नो साधुकारध्वनिः निर्यात्याननतो हनुष्ककरुणं संताडितानामिव । नाद्यापि प्रभवंति मूर्छितधियः पुष्पाणि ते वर्षितुं तेषां त्रासविधूनितेषु गलितं हस्तेषु पुष्पैः स्वयम् ॥ ३६ ॥ जनकः-- दिग्नागा दृढमीलितेक्षणपुटाः शुष्यन्मदांभाप्लवा विस्मृत्येव च कर्णतालनमपि त्रासान्मुहूर्त स्थिताः । प्रत्याश्वस्य च कर्णपल्लवयुगं संताडयंतः पुनः मन्ये श्रोतुमनीश्वराः कटुमिमं प्रोत्सारयति ध्वनिम्॥३७॥ आर्य गुरुदत्त प्रवर्त्यतां सीतापरिणयनोत्सव इति मद्वचनान्नियुज्यतां प्रकृतिः । कंचुकी-यथाज्ञापयति महाराजः । (प्रणम्य निष्क्रांतः) ।
(नेपथ्ये कलकलानंतरं ) सज्जास्ते समराय युद्धरसिकाः सन्नद्धसैन्या नृपा येषां चापवदेव संगरकथा पाणिगृहा पादुकैः। किं भूयोपि विकस्थितैर्लघुतरैरैक्ष्वाकु शक्नोषि चे
सीतायाः प्रवरो वरो भवरणं कृत्वा च जित्वा च नः॥३८॥ सीता--( श्रुत्वा सभयमपवार्य ) हलो किं एअं । विनीता-( जनांतिकं) मुंद्धे मा हअहि जारिसो तेसं धणुगुणारोपणसंरंभो तारिसं चेअ आहो पुरिसिआमेत्तं एअंपि अ समरसोडिरं जाण ।
१ अहो लोकोत्तरकौशलः कौशलेश्वरः। २ हला किमेतत् । ३ मुग्धे मा बिभेहि यादृशस्तेषां धनुरारोपणसंरंभः तादृशमेवाहो पुरुषिक्यमानं एतदपि च समरशौडिये जानीहि।