________________
पंचमोऽङ्कः।
समं शिरोभिर्नमयत्वमीषां
कोदण्डकाण्डं पुरुषप्रकांडः ॥ ३२ ॥ रामः-यदाह वत्सः (उत्थायोपसृत्य च धनुरुद्यम्य आत्मगतं)।
नमयति यदनंगः कौसुमी चापयष्टिं नमयति च यदेषा भ्रूधनुः पक्ष्मलाक्षी तदुभयमपि दिष्टया दृष्टसाफल्यमेत
समयति मयि कामं चापमारोपितज्यम् ॥ ३३ ॥ (ज्यामारोप्य धनुर्नमयति )। सर्वे-आश्चर्य आश्चर्यम् । सीता-(सहर्षमात्मगतं ) संपुण्णा मे मणोरहा। विनीता-( जनांतिकं ) भट्टिदारिए दिटुिआ वड्डेम । लक्ष्मणः--आर्य स्थीयतां मुहूर्तमनेनैव विभ्रमेण ।
निर्निमेषमिमां शोभां विलोचनविलोभनीम् । पर्यंतस्वैरमार्यस्य प्रेक्षकास्संतु निर्वृताः ॥ ३४ ॥ जनकः
अधुना धनुर्भुजवतां भुजसारग्लानिशंसिमंडलितम् । वहति परिवेशकांति कांत्या शीतांशुरिव रामः ॥ ३५ ॥ रामः- ( ज्यामाकर्षे धनुभनक्ति आकाशे पुष्पवृष्टिः क्रियते ) विदूषकः-( ससंभ्रमं ) किं एंअं (दृष्ट्वा ) कहं भग्गं धणु वअस्सेण । सर्वे-आश्चर्यम् । सीता-( ससंभ्रमं जनांतिकं ) हेला किं एअं। विनीता-भट्टदारिए भग्गं खु धणु भट्टिणा । १ संपूर्णा मे मनोरथाः । २ भर्तृदारिके दिष्ट्या वर्दामहे । ३ किमेतत् । ४ कथं भग्नं धनुर्वयस्येन । ५ हला किमतेत् । ६ भर्तृदारिके भग्नं खलु धनुर्भा ।