________________
९४
मैथिलीकल्याणे
ततिक कर्तुमलं बलाद्गजरिपौ दंतापितांघ्रिद्वये मस्तिष्काहरणाय मस्तकतटं स्वच्छंदमुच्छिदति ॥४३॥
[ आकाशे) श्लाघाभूमेर्बलस्य क्षपितरिपुबलं पश्यतास्यानुभावं स्थैर्यारूढा हि सप्तक्षितिधरपतयश्चाष्टमश्चैष रामः । पश्यंति ज्ञाननेत्रा यदनघमृषयश्चात्तचारित्रनिष्ठाः
कैवल्यं प्राप्तुकामा हितमिह तदिहामुत्र च ब्रह्मदृष्टम्॥४४॥ लक्ष्मणो जनकश्च--(श्रुत्वा) कथमसौ चरमदेहधारी पुरुषोत्तमः ।
(सर्वे प्रणमंति ) लक्ष्मणः-आर्य पश्य पश्य ।
श्रुत्वा जगद्विस्मयनीयकीर्तेः कीति सुरेन्द्रैस्तव कीर्त्यमानाम् । भत्तया भवंतं परितः स्तुवंतो
नमंति बद्धांजलयो नरेंद्राः ॥ ४५ ॥ जनकः-भंगारस्तावत् । विनीता-(उत्थाय नाट्येनादाय) ईदो सण्णिहिदो रअणभिंगारओ। ( उपनयति)
जनकः-( उत्थाय नाट्येन गृहीत्वा राममुपसृत्य ] भद्रे विनीते भद्रां सीतामिहैवानय । विनीता--जं महाराओ आणवेदि । (तथाकरोति ) जनकः
उौं पालयितुं गुवौं सरत्नाकरमेखलाम् । राम प्रभवते दत्ता सीतासौ भवते मया ॥४६॥
१ इतः सन्निहितो रत्न गारः। २ यन्महाराज आज्ञापयति ।